________________
१०५०
द्वात्रिंशद्विधा गणिसम्पदः ४ धारणा च । प्रयोगमतिसम्पदश्चतुर्विधत्वमेवं - १ स्वशक्तिज्ञानं, २ पुरुषज्ञानं, ३ क्षेत्रज्ञानं, ४ वस्तुज्ञानञ्च । सङ्ग्रहपरिज्ञासम्पदश्चतुर्विधत्वमेवं - १ गणयोग्योपसङ्ग्रहसम्पत्, २ संसक्तसम्पत्, ३ स्वाध्यायसम्पत्, ४ शिक्षोपसङ्ग्रहसम्पच्च । यदाह प्रवचनसारोद्धारे तद्वत्तौ च - 'छत्तीसं सूरिण गुण'त्ति चतुःषष्टं द्वारमाह -
अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं । विणओ य चउब्भेओ छत्तीस गुणा इमे गुरुणो ॥५४१॥
आयार १ सुय २ सरीरे ३ वयणे ४ वायण ५ मई ६ पओगमई ७ । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ८ (१)॥५४२॥ चरणजुओ मयरहिओ अनिययवित्ती अचंचलो चेव (४)। जुग परिचिय उस्सग्गी उदत्तघोसाइ विन्नेओ (८)॥५४३॥ चउरंसोऽकुंटाई बहिरत्तणवज्जिओ तवे सत्तो (१२)। वाई महुरत्तऽनिस्सिय फुडवयणो संपया वयणेत्ति (१६) ॥५४४॥ जोगो परिणयवायण निज्जविया वायणाएँ निव्वहणे (२०)।
ओग्गह ईहावाया धारण मइसंपया चउरोत्ति (२४) ॥५४५॥ सत्तीं पुरिसं खेत्तं वत्थु नाउं पओजए वायं (२८)।
गणजोग्गं संसत्तं सज्झाए सिक्खणं जाणे (३२) ॥५४६॥ (छाया- अष्टविधा गणिसम्पत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् ।
विनयश्च चतुर्भेदः षट्त्रिंशद् गुणा इमे गुरोः ॥५४१॥ आचार-१ श्रुत-२ शरीरं ३ वचनं ४ वाचना ५ मतिः ६ प्रयोगमति: ७ । एतेषु सम्पत् खलु अष्टमिका सङ्ग्रहपरिज्ञा ८ ॥५४२॥ चरणयुतो मदरहितो अनियतवृत्तिः अचञ्चलश्चैव (४) । युगः परिचितः उत्सर्गी उदात्तघोषादिः विज्ञेयः (८) ॥५४३॥ चतुरस्रोऽकुण्टादिः बधिरत्ववर्जितः तपसि शक्तः (१२) । वादी मधुरत्वं अनिश्रितं स्पष्टवचनः सम्पद् वचने इति (१६) ॥५४४॥