________________
चतुर्विंशतितमी षट्विशिका साम्प्रतं चतुर्विंशतितमी षट्त्रिशिकामाहमूलम् - वीसमसमाहिठाणे, दसेसणा-पंचगासदोसे य ।
मिच्छत्तं च चयंतो, छत्तीसगुणो गुरू जयउ ॥२५॥ छाया - विंशतिमसमाधिस्थानानि, दशैषणा-पञ्चग्रासदोषांश्च ।
मिथ्यात्वञ्च त्यजन्, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२५॥ प्रेमीया वृत्तिः - विंशति - विंशतिसङ्ख्यानि, असमाधिस्थानानि - चित्तास्वास्थ्यकारणानि, तथा दशैषणापञ्चग्रासदोषान् - दश एषणादोषान् पञ्च च ग्रासैषणादोषान्, चः समुच्चये, तथा मिथ्यात्वं - जिनोक्ततत्त्वाश्रद्धानरूपं, चः समुच्चये, त्यजन्-परिहरन्, इति षट्त्रिंशद्गुणो गुरुर्जयत्वित्यक्षरगमनिका ।
अधुना विव्रियते - 'समाधानं समाधिश्चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थो न समाधिरसमाधिस्तस्य स्थानान्याश्रया दवदवचारीत्यादिकानि ।' इत्यसमाधिस्थानानां व्याख्या कृता श्रमणप्रतिक्रमणसूत्रवृत्तौ ।
असमाधिस्थानानि विंशतिः । तद्यथा - १ द्रुतद्रुतचारी, २ अप्रमाजितेऽवस्थानादिकर्ता, ३ दुष्प्रमाजितेऽवस्थानादिकर्ता, ४ अतिरिक्तशय्यासेवी, ५ अतिरिक्तासनादिसेवी, ६ रत्नाधिकपरिभक्कारी, ७ स्थविरोपघाती, ८ भूतोपघाती, ९ तत्क्षणसज्वलनकोपी, १० सुदीर्घकोपी, ११ पराङ्मुखावर्णवादी, १२ अभीक्ष्णं चौरस्त्वमित्याद्यवभाषी, १३ अधिकरणकरः, १४ अकालस्वाध्यायकारी, १५ सरजस्कपाणिपादः, १६ शब्दकरः, १७ कलहकरः, १८ झञ्झाकरः, १९ सूरप्रमाणभोजी, २० अनेषणासमितश्च । यदवाचि समवायाङ्गसूत्रे तद्वृत्तौ च -
'वीसं असमाहिठाणा पं० तं०दवदवचारि यावि भवइ १ अपमज्जियचारि आवि