SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४७७ दशविध उपघातो हास्यादिषट्कञ्च समारचनं तेनोपघात: स्वाध्यायस्य श्रमादिना शरीरस्य संयमस्य वा परिकर्मोपघातः । ४ । परिहरणा अलाक्षणिकस्याकल्प्यस्य चोपकरणस्य परिभोगः तया य उपघातः स परिहरणोपघातः । ५ । तथा - ज्ञानोपघातः श्रुतज्ञानापेक्षया प्रमादतोऽकालस्वाध्यायादिभिः । ६ । दर्शनोपघात:-शङ्कादिभिः । ७ । चारित्रोपघातः समितिभङ्गादिभिः । ८ । अचियत्तमप्रीतिकं तेनोपघातो विनयादेरचियत्तोपघातः । ९ । संरक्षणेन - शरीरादिविषयमूर्च्छयोपघातः परिग्रहविरतेरिति संरक्षणोपघातः । १० ।' गुरुर्दशविधासंवरैर्दशविधसङ्क्लेशैर्दशविधोपघातैश्च सदा विरहितो भवति । हास्यं हसनरूपम् । तदादौ येषां रत्यरत्यादीनामिति हास्यादयः । षण्णां समूहः षट्कम् । हास्यादीनां षट्कमिति हास्यादिषट्कम् । तदित्थं ज्ञेयम् - १ हास्यं, २ रतिः, ३ अरतिः, ४ भयं, ५ शोकः ६ जुगुप्सा च । तत्र हास्यं - हासः, रतिः - प्रमोदः, अरतिः - अप्रीतिः, भयं - त्रासः, शोकः - परिदेवनं, जुगुप्सा - व्यलीकम् । हास्यादीनां स्वरूपमेवमुक्तं प्रवचनसारोद्धारवृत्तौ - ___'हास्य-विस्मयादिषु वक्त्रविकाशात्मकं, रतिः - असंयमे प्रीतिः, अरतिः - संयमेऽप्रीतिः, उक्तञ्च 'अरई य संजमम्मी होइ ईऽसंजमे यावि' त्ति, भयं इहलोकादिसप्तधा, शोकः - इष्टवियोगान्मानसं दुःखं, जुगुप्सा-अस्नानादिमलिनतनुमुनिहीलना, तथा चाह - 'अण्हाणमाइएहिं साहुं तु दुगुंछई दुगुंछ' त्ति । ' (७२१ तमवृत्तवृत्तिः ) गुरु स्यादिषट्केन विमुक्तो भवति । इत्येवं षट्त्रिंशद्गुणसम्पत्तिकलितो गुरुर्विजयताम् ॥१०॥ इति नवमी षट्त्रिशिका सम्पूर्णतामिता । + न वि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । तं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं ॥ મનુષ્યોને તેવું સુખ નથી અને સર્વદેવોને પણ તેવું સુખ નથી, તેવું સુખ અવ્યાબાધપણાને પામેલા સિદ્ધોને છે.
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy