SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ अथ नवमीं षट्त्रिशिकामाह - मूलम् - दसभेयअसंवरसं किलेसउवघायविरहिओ निच्चं । हासाइछक्करहिओ, छत्तीसगुणो गुरू जयउ ॥१०॥ नवमी षट्त्रिशिका छाया - दशभेदासंवर- सङ्क्लेशोपघातविरहितो नित्यम् । हास्यादिषट्करहितः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥१०॥ प्रेमीया वृत्तिः - नित्यं - सदा, न तु कदाचिदेव, दशभेदासंवरसङ्क्लेशोपघातविरहितः प्रत्येकं दशभेदभिन्नैरसंवरैः सङ्क्लेशैरुपघातैश्च वियुक्तः, हास्यादिषट्करहितः - हास्यादीनां षट्केन वर्जितः, इति षट्त्रिंशद्गुणो गुरुर्जयत्वित्यक्षरगमनिका । - व्याख्या त्वेवं ज्ञेया - संवरः - आस्रवनिरोधलक्षणः । यदुक्तं तत्त्वार्थाधिगमसूत्रे - 'आस्रवनिरोधः संवरः ॥९/१ ॥ ' — न संवर इति असंवरः आत्मनः कर्मोपादानकारणभूतपरिणामः । स दशविधः । तद्यथा १-५ पञ्चेन्द्रियासंवरः, ६-८ त्रियोगासंवरः, ९ ओघोपध्यसंवरः १० औपग्रहिकोपध्यसंवरश्च । यदाह पाक्षिकसूत्रवृत्तौ - 'तथा-‘असंवरं तह य'त्ति संवरणं संवरः, न संवरोऽसंवरः तं तथैव दशविधं, स चायं श्रोत्रेन्द्रियस्येष्टानिष्टविषयेषु रागद्वेषाभ्यां प्रवर्त्तमानस्यासंवरणं श्रोत्रेन्द्रियासंवरः, एवं चक्षुर्भ्राणरसनस्पर्शनेन्द्रियासंवराः अपि वाच्याः ५ । मनसोऽकुशलस्यासंवरोऽनिग्रहो मनोऽसंवर एवं वागसंवरः कायासंवरश्च ८ । तथा उपकरणस्याप्रतिनियताकल्पनीयवस्त्रादेरसंवरो ग्रहणमुपकरणासंवरः । अथवा विप्रकीर्णस्य वस्त्राद्युपकरणस्यासंवरणमुपकरणासंवरः, अयं चौघिकोपकरणापेक्षः ९ । तथा सूच्या: कुशाग्राणां शरीरोपघातकारिणां - -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy