________________
द्वाविंशतितमी षट्विशिका साम्प्रतं द्वाविंशतितमी षट्त्रिशिकामाह - मूलम् - सीलंगसहस्साणं, धारतो तह य बंभभेयाणं ।
अट्ठारसगमुयारं, छत्तीसगुणो गुरू जयउ ॥२३॥ छाया - शीलाङ्गसहस्राणां, धारयन् तथा च ब्रह्मभेदानाम् ।
अष्टादशकमुदारं, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२३॥ प्रेमीया वृत्तिः - तथा - समुच्चये, पूर्वगाथापेक्षयेमां गाथां समुच्चिनोति, शीलासहस्त्राणां - शीलाङ्गानां सहस्राणीति तथा तेषां, ब्रह्मभेदानां - ब्रह्मचर्यस्य भेदा इति तथा तेषां, चः समुच्चये, उदारं - विशालं, भेदप्रभेदानुगतमित्यर्थः, अष्टादशकं - अष्टादश अवयवा यस्य तदष्टादशकं, तत् कर्मतापन्नं, धारयन् - बिभ्रत्, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति शब्दार्थः ।
भावार्थस्त्वयम् - शीलं-चारित्रं, तस्य अङ्गानि - अवयवा इति शीलाङ्गानि, तेषां सहस्राणीति शीलाङ्गसहस्राणि । तानि अष्टादश । योगत्रिकस्य करणत्रिकस्य सञ्ज्ञाचतुष्कस्य इन्द्रियपञ्चकस्य पृथ्वीकायिकादिदशकस्य श्रमणधर्मदशकस्य च परस्परं ताडनेन अष्टादशानां शीलाङ्गसहस्राणां निष्पत्तिर्भवति । यदुक्तं दशवैकालिकसूत्रनियुक्तौ तद्वृत्तौ च - . ----
_ 'अट्ठारस उ सहस्सा सीलंगाणं जिणेहिं पन्नत्ता। -
तेर्सि पछि रिरक्खणट्ठा अवराहपए उ वज्जेज्जा ॥१७६॥ (छाया- अष्टादश तु सहस्राणि शीलाङ्गानां जिनैः प्रज्ञप्तानि ।
तेषां परिरक्षणर्थमपराधपदानि तु वर्जयेत् ॥१७६॥) वृत्तिः - अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं-भावसमाधिलक्षणं,