________________
एकोनविंशतितमी षट्विशिका साम्प्रतमेकोनविंशतितमी षट्त्रिशिकामाह - मूलम् - सोलससोलसउग्गम-उप्पायणदोसविरहियाहारो ।
चउविहभिग्गहनिरओ, छत्तीसगुणो गुरू जयउ ॥२०॥ छाया - षोडशषोडशोद्गमो-त्पादनादोषविरहिताहारः ।
चतुर्विधाभिग्रहनिरतः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥२०॥ प्रेमीया वृत्तिः - षोडशषोडशोद्गमोत्पादनादोषविरहिताहारः - यस्याहारः षोडशोद्गमदोषषोडशोत्पादनादोषैविरहितो भवति, तथा चतुर्विधाभिग्रहनिरतः-यो नित्यं चतुर्विधानभिग्रहान् सेवते, ईदृशः षट्त्रिंशद्गुणो गुरुर्जयत्विति समासार्थः ।
व्यासार्थस्त्वयम् - उद्गमनमुद्गमः-पिण्डस्योत्पत्तिः तद्विषया दोषा इत्युद्गमदोषाः । ते षोडश । तद्यथा - १ आधाकर्म, २ औद्देशिकं, ३ पूतिकर्म, ४ मिश्रजातं, ५ स्थापना, ६ प्राभृतिका, ७ प्रादुष्करणं, ८ क्रीतं, ९ अपमित्यं, १० परिवर्तितं, ११ अभ्याहृतं, १२ उद्भिन्नं, १३ मालापहृतं, १४ आच्छेद्यं, १५ अनिसृष्टं १६ अध्यवपूरकश्च । यदाह श्रीपिण्डनियुक्तौ मलयगिरिसूरिकृततद्वृत्तौ च - 'ते चोद्गमदोषाः षोडश, तानेव नामतो निर्दिशति -
आहाकम्मुइसिय पूइकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओअर कीय पामिच्चे ॥१२॥ परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय ।
अच्छिज्जे अणिसटे अज्झोयरए य सोलसमे ॥१३॥ (छाया- आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातं च ।
स्थापना प्राभृतिका प्रादुष्करणं क्रीतं अपमित्यम् ॥१२॥