________________
सप्तमी षट्त्रिशिका
अधुना सप्तमी षट्विशिकामाहमूलम् - अट्ठविहकम्मअटुं-गजोगमहसिद्धिजोगदिट्ठिविऊ ।
__चउविहऽणुओगनिउणो, छत्तीसगुणो गुरू जयउ ॥८॥ छाया - अष्टविधकर्माष्टाङ्ग-योगमहासिद्धियोगदृष्टिविद् ।
चतुर्विधानुयोगनिपुणः, षट्त्रिंशद्गुणो गुरुर्जयतु ॥८॥ प्रेमीया वृत्तिः - अष्टविधकर्माष्टाङ्गयोगमहासिद्धियोगदृष्टिविद्-अष्टविधानि कर्माणि, योगस्याऽष्टावङ्गानि, अष्टविधा महासिद्धीः अष्टविधा योगदृष्टीश्च वेत्ति, चतुर्विधानुयोगनिपुणः - चतुष्प्रकारेष्वनुयोगेषु कुशलः, एवं षट्त्रिशद्गुणो गुरुर्जयत्विति समासार्थः । __ व्यासार्थस्त्वयम् - अञ्जनचूर्णपूर्णसमुद्गकवद् निरन्तरपुद्गलनिचिते लोके क्षीरनीरन्यायेन वढ्यय:पिण्डवद्वा जीवेन यत् कर्मवर्गणाद्रव्यमात्मसम्बद्धं क्रियते तत् कर्म । तदष्टविधम् । तद्यथा - १ ज्ञानावरणं, २ दर्शनावरणं, ३ वेदनीयं, ४ मोहनीयं, ५ आयुः, ६ नाम, ७ गोत्रं ८ अन्तरायञ्च । अष्टानां कर्मणामुत्तरभेदा अष्टपञ्चाशदधिकशतसङ्ख्याः । उक्तञ्च प्रथमकर्मग्रन्थे तवृत्तौ च -
'अधुना मूलप्रकृतिभेदतस्तस्यैवाष्टविधत्वमुत्तरप्रकृतिभेदतोऽष्टपञ्चाशच्छतभेदत्वं च प्रदर्शयन् स्वनामग्राहमष्टौ मूलभेदान् एकैकस्य च भेदस्य यस्य यावन्त उत्तरभेदास्तांश्च वक्तुमाह -
इह नाणदंसणावरणवेयमोहाऽऽउनामगोयाणि । विग्धं च पणनवदुअट्ठवीसचउतिसयदुपणविहं ॥३॥