________________
18
तन्नाम प्रभोः कार्मणमङ्गमदाहि न तु चार्मणम्। यदा नन्दिषेणमुनिः वेश्याया गृहे धर्मलाभं ददाति तदा वेश्याया उक्ति पश्यन्तुवेश्याप्याह सहासेयं धर्मलाभेन किं मम । शर्मलाभं धनेनाहमीहेय प्रत्यहं यतः ॥५९॥ [नन्दिषेणकथानके]
अत्र प्रायः धर्मलाभस्थाने 'अर्थलाभ' शब्दः एव मनसि स्फुरेत् । किन्तु प्रासप्रेमिभिः सूरिभिः हृदयङ्गमः प्रासोऽत्र योजितः । एवंरीत्या बहुषु स्थलेषु तैः यत्शब्दचयनं कृतं तच्चेतश्चमत्कारि खलु ।
अपरं च केषुचित्स्थलेषु कविवरैः कृतं वर्णनं हृदयमार्दीकरोति यथा ऋषभप्रभोः निर्वाणानन्तरं भरतचक्रिणः स्थितिः विलापश्च, चण्डरुद्राचार्यस्य नूतनशिष्यस्य चिन्तनम्, वज्रस्वामिचरिते दुष्कालवर्णनमित्यादि ।
____ अत्रत्येषु कथानकेषु कुत्रचित् सर्वथा अज्ञातपूर्वः अंशः ज्ञायते अस्माभिः यथा - सत्यकिविद्याधरोऽपि वज्रस्वामिवत् साध्वीनामुपाश्रये तिष्ठन् एकादशाङ्गवित् जातः । - यद्यपि एकः प्रयत्नः तादृशः अपि करणीयः स्यात् यस्मिन् उपदेशमालायाः विभिन्नासु टीकासु या याः कथाः सन्ति तासु कुत्र कुत्र मतान्तराणि सन्ति इति । स च करिष्यते केनचित्परिश्रमशीलेन अध्येत्रा इति आशास्महे।
एवं सम्यग्दृष्ट्या उपदेशमालायाः कर्णिकावृत्तिः काव्यरसिकानाम्, ऐतिह्यगवेषकानाम्, कथारसपिपासूनां कृते च महत्युपलब्धिरूपेति सुनिश्चितम् । ७. उपसंहारः :
देवलोकीयमालातोऽपि विशिष्टायाः उपदेशमालायाः सौरभ्यम् अनन्ततो गत्वा तु न शब्दविषयं तत्तु अनुभवेनैव वेद्येत । सा देवमाला तु देवस्य च्यवनात् प्रागेव म्लाना भवति । इयमुपदेशमाला तु रचतियुः च्यवनानन्तरं २५००तोऽपि अधिकानि वर्षाणि अतीतानि चेदपि स्वसुरभिना दशापि दिशो वासयन्ती विराजते । न जाने अधुनावधि कियद्भिः साधकैः अस्या मालायाः सौरभेण कुवासनादौर्गन्ध्यं दूरीकृतं स्यात् ? तादृशी माला, स्वतः प्रायः चतुर्विशतिगुणितप्रमाणया 'कर्णिकया' युक्ता (माला ५४४ गाथाप्रमाणा कर्णिका १२२७४ श्लोकप्रमाणा साधकानां कृते सुलभा भवेत् तदिदं कस्य परितोषाय न स्यात् ।
एतदवधेयमस्माभिः - यदेते एतादृशा वा अन्ये ग्रन्थाः न केवलं भाषाभ्यासाय कथावस्तुज्ञानाय, काव्यरसपानाय, ऐतिह्यसंकलनाय, प्रवचनकरणाय, चेतोविनोदाय वा पठनीया भवन्ति । अपि तु एतानि सर्वाणि आनुषङ्गिनि एव फलानि इति न विस्मर्तव्यम् । प्रधानं फलं तु तदेव यद् वयं श्रीऋषभवीरजिनवत् तपोनिष्ठाः श्रीगौतमगणधरवत् विनयप्रष्ठाः, श्रीसनत्कुमारवत् शरीररागबहिष्ठाः, एवंकृत्वा च मोक्षनेदीष्ठाः भवेत ।
वयं सर्वे उपदेशमालां न केवलं कण्ठस्थामपि तु आत्मस्थां कृत्वा यावच्छीघ्रं शाश्वतसौरभ्यमयं परमपदं प्राप्नुयाम इत्येष एक एव शुभाभिलाषः ।
पूज्याचार्यविजययोगितलकसूरीश्वरचरणरेणुः
मुनिः श्रुततिलकविजयः ।