________________
709
तस्मादुद्योतनाख्यो गुरुरभवदितः सर्वदेवो मुनीन्द्रस्तस्माच्छ्रीदेवसूरिस्तदनु पुनरभूत्सर्वदेवस्ततश्च । जज्ञाते सूरिजी प्रगुणगुणयशोभद्रसन्नेमिचन्द्रौ, विख्यातौ भूतलेऽस्मिन्नविस्तमुदितौ नूतनौ पुष्पदन्तौ ॥ १० ॥ मुनिचन्द्रमुनिस्ततोऽद्भुतोऽथाऽजितदेवश्च तदन्तिषद्धरेण्यः ।
अपरः पुनरस्य शिष्यमुख्यो, भुवि वादी विदितश्च देवसूरिः ॥ ११ ॥ अजितदेवगुरोरभवत्पदे, विजयसिंह इति प्रथितः क्षितौ । तदनु तस्य पदं दधतावुभावभवतां गणभारधुरन्धरौ ॥ १२ ॥ सोमप्रभस्तत्र गुरुः शतार्थी, सतां मणिः श्रीमणिरत्नसूरिः । पट्टे मणि श्रीमणिरत्नसूरेर्जज्ञे जगच्चन्द्रगुरुर्गरीयान् ॥ १३ ॥
तेषामुभावन्तिषदावभूतां, देवेन्द्रसूरिर्विजयाच्च चन्द्रः । देवेन्द्रसूरेरभवच्च विद्यानन्दस्तथा श्रीगुरुधर्मघोषः ॥ १४ ॥ श्री धर्मघोषादजनिष्ट सोमप्रभोऽस्य शिष्याश्च युगप्रमेयाः । चतुर्दिगुत्पन्नजनावनाय, योधा इव प्राप्तविशुद्धबोधाः ॥ १५ ॥ श्रीविमलप्रभसूरिः, परमानन्दश्च पद्मतिलकश्च । सूखिरोऽप्यथ सोमप्रभपट्टेशश्च सोमतिलकगुरु : ॥ १६ ॥ शिष्यास्त्रयस्तस्य च चन्द्रशेखरः, सूरिर्जयानन्द इतीह सूरिराट् । स्वपट्टसिंहासनभूमिवासवः शिष्यस्तृतीयो गुरु देवसुन्दरः ॥ १७ ॥ श्री देवसुन्दरगुरोरथ पञ्च शिष्याः, श्रीज्ञानसागरगुरुः कुलमण्डनश्च । चञ्चद्गुणश्च गुणरत्नगुरुर्महात्मा, श्रीसोमसुन्दरगुरुर्गुरूसाधुरत्नः ॥ १८ ॥ श्रीदेवसुन्दरमुनीश्वरपट्टनेतुः श्रीसोमसुन्दरगुरोरपि पञ्च शिष्याः । तत्र स्वपट्टवियदङ्गणभानुमाली, मुख्योऽन्तिषद्गणधरो मुनिसुन्दराख्यः ॥ १९ ॥
अन्ये श्रीजयचन्द्रः सूरिः श्रीभुवनसुन्दराश्च । श्रीजिनसुन्दरसूरिर्जिनकीर्त्तिश्चेति सूरीन्द्राः ॥ २० ॥ मुनिसुन्दरसूरिपट्टभानुर्गुरुरासीदथ रत्नशेखराख्यः ।
दधदस्य पदं बभूव लक्ष्मीपदयुक् सागरसूरिरीश्वरार्च्यः ॥ २१ ॥
सुमतिसाधुगुरुस्तदनु प्रभामुदवहद्दधदस्य पदं प्रभुः ।
पदमदीदिपदस्य च हेमयुगविमलसूरिरुदात्तगुणोदयः ॥ २२ ॥
पट्टे तस्य बभूवुरुग्रतपसो वैरङ्गिकाग्रेसरा, आनन्दाद्विमला या गणभृतो भव्योपकारोद्धुराः ।
ये नेत्रेभशरामृतद्युतिमिते (१५८२) वर्षे क्रियोद्धारतश्चक्रुः
स्वां जिनशासनस्य शिखरे कीर्ति पताकामिव ॥ २३ ॥