________________
696
एवं मतत्रयेऽपि यथास्वं लेश्यानामन्तर्भावो वाच्यः । अत्र मतत्रयेऽन्त्यं पटीयोऽन्ये चानीदृशे
इत्यादि द्रव्यलोके लेश्याधिकारे प्रपञ्चितमस्ति ।
कषायाः स्युः क्रोधमानमायालोभा इमे पुनः । कषायमोहनीयाख्यकर्मोदयसमुद्भवाः ॥ ५६ ॥ गतयो देवमनुजतिर्यग्नरकलक्षणाः । भवन्तीह गतिनामकर्मोदयसमुद्भवाः ।। ५७ ।। नोकषायमोहनीयोदयोद्भूताभवन्त्यथ । स्त्रीपुंनपुंसकाभिख्या, वेदाः खेदाश्रया भृशम् ॥ ५८ ॥ मिथ्यात्वमपि मिथ्यात्वमोहनीयोदयोद्गतम् । एवमौदयिका भावा, व्याख्याता एकविंशतिः ॥ ५९ ॥ ननु निद्रादयो भावास्तत्तत्कर्मोदयोद्गताः । अन्येऽपि संति तत्केयं, गणनाऽत्रैकविंशतेः ? ॥ ६० ॥ अत्रोच्यते
यथासंभवमेष्वेवान्तर्भाव्या अपरेऽपि ते । सावर्ण्यसाहचर्याभ्यामाक्षेपादोपलक्षणात् ॥ ६१ ॥ निद्रापञ्चक माक्षिप्तमज्ञानग्रहणाद्यतः । स्यादज्ञानं मोहनीयावरणद्वितयोदयात् ॥ ६२ ॥ गतिग्रहणतः शेषनामकर्मभिदां व्रजः । आक्षिप्यतेऽविनाभावात्सावर्ण्याद्बोपलक्ष्यते ॥ ६३ ॥ आयूंषि वेदनीये द्वे, गोत्रे द्वे इत्यमून्यपि । आक्षिप्यन्तेऽत्र गत्यैवाऽनन्यथाभावतः खलु ॥ ६४ ॥ जात्यादिनामगोत्रायुर्वेद्यानां कर्मणां ध्रुवम् । भवधारणहेतूनामसत्येकतरेऽपि यत् ॥ ६५ ॥ गतिर्न संभवत्येवाऽव्यभिचारि ततः स्फुटम् । ज्ञेयमेषां साहचर्यमर्हत्यपि तथेक्षणात् ॥ ६६ ॥ हास्यादि षट्कमाक्षिप्तं वेदानां ग्रहणादिह । यदेतेऽव्यभिचारेण, वेदोपग्रहकारिणः ॥ ६७ ॥ यद्वा कषायग्रहणाद्धास्यादीनां परिग्रहः । सावर्ण्यात्सहचाराच्च, कषायनोकषाययोः ॥ ६८ ॥ इत्यर्थतस्तत्त्वार्थवृत्तौ कर्मग्रन्थवृत्तावप्युक्तं - ननु निद्रापञ्चकसातादिवेदनीयरत्यरतिप्रभृतयः प्रभूततरभावा अन्येऽपि कर्मोदयजन्याः सन्ति, तत्किमित्येतावन्त एवेति निर्दिष्टा: ? सत्यं, उपलक्षणत्वादन्येऽपि दृष्टव्याः, केवलं पूर्वशास्त्रेषु प्राय एतावन्त एव निर्दिष्टा दृश्यन्ते, इत्यत्राप्येतावन्त एवास्माभिः प्रदर्शिता इति ।
जीवत्वमथ भव्यत्वमभव्यत्वमिति त्रयः । स्युः पारिणामिका भावा, नित्यमीदृक्स्वभावतः ॥ ६९ ॥ यदभव्यो न भव्यत्वं, भव्यो वा नैत्यभव्यताम् । कदाप्यजीवा जीवत्वं, जीवो वा न ह्यजीवताम् ॥ ७० ॥ जीव एवात्र जीवत्वं, स्वार्थिकः प्रत्ययो ह्ययम् । भाविसिद्धिर्भवेद्भव्यः, सिद्ध्यनर्हस्त्वभव्यकः ॥ ७१ ॥ भावाः सन्ति परेऽप्यस्तित्वादयः पारिणामिकाः । किंतु जीवाजीवसाधारण इत्यत्र नोदिताः ॥ ७२ ॥ जीवस्यैव परं ये स्युर्न त्वजीवस्य कर्हिचित् । ते त्रिपञ्चाशदत्रोक्ताः सदौपशमिकादयः ॥ ७३ ॥ तथोक्तं तत्त्वार्थभाष्ये – “जीवत्वभव्यत्वाभव्यत्वादीनि च । जीवत्वं भव्यत्वमभव्यत्वमित्येते त्रयः पारिणामिका भावा भवन्ति । [ अध्याय २. सूत्र. ७ ]
१ अन्त्यं योगपरिणामो लेश्येत्यात्मकं मतं, न तु मनोयोगपरिणामो लेश्येत्यात्मकं, तस्य तुर्यमतत्वात् पृथगगणना तु तस्य योगपरिणाम एवान्तर्भावात् ।