SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 396 दाक्षिणात्यचैत्यवृक्षमहेन्द्रध्वजपूजनम् । कृत्वा नन्दापुष्करिणी, दाक्षिणात्यां व्रजन्ति ते ॥ ३५८ ॥ तत्तोरणत्रिसोपानप्रतिरूपकपुत्रिकाः । व्यालरूपाण्यर्चयन्ति, पुष्पधूपादिकैरथ ॥ ३५९ ॥ चैत्यं प्रदक्षिणीकृत्यौत्तराहदारसंस्थिताम् । नन्दापुष्करिणीमेत्य, कुर्वन्ति प्राग्वदर्चनम् ॥ ३६० ॥ उदीच्यान् केतुचैत्यगुस्तूपांस्तत्प्रतिमाः क्रमात् । उदक्प्रेक्षामण्डपं चार्चयन्ति मुखमण्डपम् ॥ ३६१ ॥ ततो द्वारमौत्तराहं, प्राच्यं द्वारं ततः क्रमात् । प्राच्यान्मुखमण्डपादीन्, प्रपूजयन्ति याम्यवत् ॥ ३६२ ॥ ततः सभां सुधर्मां ते, प्रविश्य पूर्वया दिशा । यत्र माणवकश्चैत्यस्तम्भस्तत्राभ्युपेत्य च ॥ ३६३ ॥ आलोके तीर्थकृत्सक्नां, प्रणता लोमहस्तकैः । प्रमार्जितादाददते, तानि वज्रसमुद्रकात् ॥ ३६४ ॥ ततो लोमहस्तकेनं, प्रमृज्योदकधारया । प्रक्षाल्याभ्यर्च्य पुष्पाद्यैनिक्षिपन्ति समुद्के ॥ ३६५ ॥ समुद्रकं यथास्थानमवलम्ब्यार्चयन्ति च । पुष्पमाल्यगन्धवस्त्रैश्चैत्यस्तम्भं ततोऽत्र च ॥ ३६६ ॥ कृत्वा सिंहासनस्यार्चा, मणिपीठिकया सह । क्षुल्लकेन्द्रध्वजस्यार्चा, कुर्वतेऽम्भःसुमादिभिः ॥ ३६७ ॥ कोशं प्रहरणस्याथ, समेत्य संप्रमृज्य च । खड्गादीनि प्रहरणान्यभ्यर्चयन्ति पूर्ववत् ॥ ३६८ ॥ सुधर्मामध्यदेशेऽथ, प्रकल्प्य हस्तकादिकम् । देवशय्यां पूजयन्ति, मणिपीठिकया सह ॥ ३६९ ॥ ततश्चैते सुधर्मातो, निर्यान्तो याम्यया दिशा । सिद्धायतनवद् दास्त्रयमर्चन्ति पूर्ववत् ॥ ३७० ॥ एवं इदं सभाश्चान्याः, स्वस्वोपस्करसंयुताः । व्यवसायसभां चान्ते, पूजयित्वा सपुस्तकाम् ॥ ३७१ ॥ व्यवसायसभावर्तिप्राच्यपुष्करिणीतटात् । कुर्वते बलिपीठे ते, गत्वा बलिविसर्जनम् ॥ ३७२ ॥ स्वीयस्वीयविमानानां, श्रृङ्गाटकत्रिकादिषु । उद्यानादौ चार्चनिकां, कारयन्त्याभियोगिकैः ॥ ३७३॥ अथैवं कृतकृत्यास्ते, ऐशानकोणसंस्थिताम् । नन्दापुष्करिणीमेत्य, तस्याः कृत्वा प्रदक्षिणाम् ॥ ३७४ ॥ प्रक्षाल्य हस्तपादादि, विलसन्ति यथारुचि । सभां सुधर्मामेत्य प्राग्मुखाः सिंहासने स्थिताः ॥ ३७५ ॥ एवमत्रामुत्र लोके, हितावहं जिनार्चनम् । इति तत्रालोकमात्रात्प्रणमन्ति पुन: पुन: ॥ ३७६ ॥ न नमन्ति न वा तानि, स्तुवन्ति च मनागपि । लोकस्थित्या धर्मबुद्ध्या, कृतयोद्यन्तरं महत् ॥ ३७७ ॥ स्तुवन्ति नव्यैः काव्यैश्च, तथा शक्रस्तवादिभिः । शेषाणि तु स्थितिकृते, पूजयन्ति सुमादिभिः ॥ ३७८ ॥ सत्यप्येवं स्थितिमेव, ये वदन्ति जिनार्चनम् । कथं ते लुप्तनयना, बोध्या रैताम्रयोभिदाम् ॥ ३७९ ॥ राजप्रश्नीयसूत्रे यत्सूर्याभस्य सुपर्वणः । विमानवर्णनं तस्योत्पत्तिरीतिश्च दर्शिता ॥ ३८० ॥ मया तदनुसारेण, वैमानिकसुपर्वणाम् । विमानवर्णनोत्पत्ती, सामान्यतो निरूपिते ॥ ३८१ ॥ विशेषमुक्तशेषं तु, जानन्त्यशेषवेदिनः । गीतार्था निहताना, यद्वा तद्वाक्यपारगाः ॥ ३८२ ॥ देव्यो देवा: परेऽप्येवं, तत्तद्विमानवासिनः । जायन्ते स्वस्वशय्यायां, स्वस्वपुण्यानुसारतः ॥ ३८३ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy