SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसङग्रहणी DE निषिध नीलवंत ५०० यो. पर्वतः सीता वा सीतोदा | महानदी वक्षस्कार पर्वत | ४०० यो. वक्षस्कार पर्वत AAA५० AAAAAAAAAA MANAÁÁÅAAX वक्षस्कार गिरेः पूर्वपार्श्वदर्शनं REEP चित्राङ्क: १६ .. नीलवन्निषधयोर्गन्धमादनसोमनसगजदन्तगिर्योः सप्त सप्त प्रत्येकं कूटानि । तथाहिं गन्धमादने मेरोरन्तिके सिद्धायतनाख्यं कूटं १ ततोऽनुक्रमं नीलवत्सन्मुखानि षट्कटानि-तयथा गन्धमादनकूटं १ गन्धिलावत कूटं २ उत्तरकुरुकूटं ३ स्फटिककूटं ४ लोहिताक्षकूटं ५ आनन्द कूटं ६ च । तत्र सिद्धायतनकूटे सिद्धदेवालयः, स्फाटिकलोहिताक्षकूटयो गङ्कराभोगवत्योर्दिक्कुमारिकयो रावासौ शेषेषु चतुर्पु कूटेषु स्वस्वनामाङ्कितदेवावासाः । एतानि च पञ्चशतयोजनौच्चानि । इति गन्धमादनकूटसप्तकस्वरूपम् । सोमनसे मेरोरन्तिके सिद्धायतनकूटं १ ततोऽनुक्रमं निषधसम्मुखानिषट्कूटानि-तघथा सोमनसकू. १ मङ्गलावतीकूटं २ देवकुरुकूटं ३ विमल टं ४ काश्चनकूटं ५ वशिष्टकूटं ६ चेति । एतानि पञ्चशतयोजनविशालोच्चानि । तेषु सिद्धायतनकूटे सिद्धप्रासादः, विमलकाञ्चनकूटयोः सुवरसावत्समित्रयोः काष्ठाकुमार्योरावासौ । शेषं पूर्ववत् स्वस्वनामादेवावासत्वम् । इति सोमनसकूटस्वरूपम् ॥ रूप्योऽष्टौ कूटानि-तथाहि-सिद्धायतनकूटं १ रुक्मिकूटं २ रम्यककूटं नरकान्ताकूटं ४ बुद्धिदेवीकूटं ५ रूप्यकूलाकूटं ६ हैरण्यवतकू' ७ मणिकाञ्चन् कूटं चेति । एतानि प्रत्येकं पञ्चशतयोजनोच्चानि । तत्र सिद्धायतने सिद्ध चैत्यं, रुक्मिरम्यग्धैरण्यवन्मणिकाञ्चनकूटेषु स्वस्वनामाङ्कितदेवावासाः । नरकान्ताबुद्धिदेवीरूप्यकूला कूटेषु स्वस्वाभिधाङ्कितदेव्यावासाः । इति रुक्मिकूटाष्टकविवरणम् ॥ महाहिमवत्यष्टौ कूटानि-तथाहि-सिद्धायतनमहाहिमवद्धिमवद्रोहिताही हरिकान्ताहरिवर्षवैडूर्याख्यानि । तत्र सिद्धायतने सिद्धालयः । महाहिमवद्धिमवद्धरिवर्षवैडूर्येषु स्वाभिधानदेवावासाः । रोहिताहीदेवीहरिकान्तासु स्वस्वनामाङ्कितदेव्यावासाश्चति । एतेषां प्रासादराजधान्यादिवक्ष्यमाणकूटवत् । इति महाहिमवत्कूटाष्टकस्वरूपम् ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy