SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ___ सटीकजंबूद्वीपसङ्ग्रहणी निर्मितानि । सर्वाण्येतानि सपादषड्योजनोच्चानि, चैत्यप्रासादविभूषितानि वक्ष्यमाणस्वरूपभरत समरूपाणि । सौमनसगन्धमादनगजदन्तयोः सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, मेरोर्नन्दनवने नव, हिमवच्छिखरिणोर्यर्षधरयोरेकादश एकादश, महाहिमवद्रुक्मिणोरष्टावष्ट, निषधनीलवतोर्नव नव, षोडशसु वक्षस्कारेषु प्रत्येकं चत्वारि चत्वारि इत्येतानि चतुःषष्टिः । एतेषु षट्पञ्चाशद्वर्षधरनगकूटानि द्वात्रिंशद् गजदन्तगिरिकूटानि नव मेरुनन्दनवनकूटानि चतुःषष्टिश्च वक्षस्कारकूटानि सर्वाग्रेणैतान्येकषप्टयधिकशतं कूटानि माल्यवद्विद्युत्प्रभमेरुनन्दनस्थहरिस्सहहरिबलकूटवर्जितानि अष्टपञ्चाशं शतं कूटानि। योजनानां पञ्चशती प्रत्येकमुच्चानि रत्ननिर्मितानि वक्ष्यमाणहिमवत्कूटसन्निभानि मिथः समस्वरूपाणि । माल्यवरिस्सहकूटं विद्युत्प्रभहरिकूटं मेरुनन्दनबलकूटं च त्रीण्यपि प्रत्येकं सहस्रयोजनोच्छ्रयाणि स्वर्णमयानि य । एवमेतानि सर्यसङ्ख्यया षडधिका त्रिंशती चतुस्त्रिंशदायतवैताढयकूटानां ३०६, द्वाविंशतिर्हिमवच्छिखरिकूटानि २२, षोडश महाहिमवद्रुक्मिकूटानि १६, अष्टादश निषधनीलवत्कूटानि १८, चतुर्दश सौमन. सगन्धमादनगजदन्तकूटानि १४, अष्टादश विद्युत्प्रभमाल्यवद्गजकूटानि १८, नव मेरुनन्दन कूटानि ९ चतुःषष्टिश्च षोडशवक्षस्कार कूटानी ६४ त्येवं सङ्ख्येह गिरिकूटानां सप्तषष्टया समन्विता । चतुःशती भवत्येवं प्रज्ञप्तं जगदीश्वरैः ॥' ___ एवं पूर्वापरविदेहद्वात्रिंशति विजयेषु भरतैरवतक्षेत्रयोश्च प्रत्येकमेकैकवृषभकूटसद्भावाच्चतुस्त्रिंशवृषभकूटानि परस्परं समस्वरूपाणि, अष्टौ च मेरोभूमिष्ठभद्रशालवने, अष्टावुत्तरकुरुस्थजम्बूवृक्षे, एवं देवकुरुस्थशाल्मलीवृक्षेऽप्यष्टौ इति । एतानि च सर्वाणि भूमिकूटानि मिथः समरूपाणि । सर्वसङ्ख्याष्टपञ्चाशत्प्रज्ञप्ता जिनेश्वरैः। वस्तुतस्त्वेतेषां पर्यतत्वेनाभाषितुमौचित्येऽपि पूर्वाचार्यानुरोधतः कूटत्वव्यवहारोऽप्यदुष्टः । एवञ्च - “ गिरिकूटकूटाकुटानां सङ्गतौ जायते त्वियं । सङ्ख्या पंचशती पञ्चविंशत्याभ्यधिका ५२५ सुखम् ॥" अत्र च जम्बूद्वीपे षोडश हुदा भवन्ति । तत्र षण्महाहृदाः षड्वर्षधरोपरिवर्तिनः पद्ममहापद्मतिगिञ्छिपुण्डरीकमहापुण्डरीकेसर्यभिख्याः । तेषु हिमवति पद्महदः १ महाहिमवति महापद्महदः २ निषधे तिगिञ्छिहदः ३ शिखरिणि पुण्डरीकसंज्ञः ४ रुक्मिणि महापुण्डरीकाख्यः ५ नीलवति केसरीहदश्चेति ६ । एतेषु पद्मपुण्डरीको समस्वरूपी, महापामहापुण्डरीकावपि मिथ
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy