________________
सटीकजंबूद्वीपसङ्ग्रहणी
जगद्गुरुमित्यनेन वागतिशयश्च ४, । नन्वमीषां इत्थंक्रमणोपन्यासः किं सप्रयोजन उत निःप्रयोजन इति चेत् ? सप्रयोजन एव, इत्थं क्रमेणामीषां लाभसूचकत्वात् । तथाहि रागद्वेषादिमोहनीयक्षयात् प्रथमापायापगमातिशयावाप्त अन्तर्मुहूर्तेन ज्ञानावरणीयादिक्षयात् केवलज्ञानलक्ष्मीमवाप्नोति अत एव ज्ञानातिशयद्वितीयत्वं, केवलज्ञानसम्प्राप्तौ चतुनिकायजा देवाः समवसरणादिरूपां पूजां प्रतन्वन्ति, अतस्तस्य तृतीयत्वं, समवसरणे कृते सति जगदेकबन्धुर्भगवान् योजनगामिनी सर्वसत्त्वेषु तत्तद्भाषापरिणामिनी देशनां गदतीति अत एव च वचनातिशयस्य तुर्यत्वम् । तथा चोक्तः सिद्धराजराजसदसि आशावसनजयावाप्तख्यातिना वादिदेवसरिणा स्वोपज्ञस्याद्वादरत्नाकरनामप्रमाणनयतत्त्वालोकटीकायां एतेषां चातिशयानामित्थमुपन्यासे तथोत्पत्तिरेव निमित्तं तथाहि “ नाविजितरागद्वेषो विश्ववस्तुज्ञाता भवति; न चाविश्ववस्तुज्ञः शक्रपूज्यः सम्पद्यते; न च शक्रपूजाविरहे भगवांस्तथा गिरः प्रयुक्त इती " त्यादिनाऽयमेवार्थो निषेधमुखेनेति ।
महावीरंति महांश्चासौ इतरापेक्षया वीरश्च महावीरस्तं - ' शूरवीर विक्रान्तौ ' वीरयति स्म कषायोपसर्गपरीषहेन्द्रियादि शत्रु प्रति विक्रामति स्मेति वीरः, अथवा · ईर गतिप्रेरणयोः' विशेषेण ईरयति गमयति, स्फेटयति कर्म, प्रापयति वा शिवं, प्रेरयति वा शिवाभिमुख इति वीरः, अथवा — ईरि गतौ' विशेषेणापुनर्भावनेर्ते स्म, याति स्म शिवमिति वा वीरः, सर्वेषां गत्यर्थानां ज्ञानार्थत्वात् विशिष्ट ईरो ज्ञानं यस्य स वीरः, अथवा विशिष्टा केवलज्ञानात्मिका ईलक्ष्मीस्तां राति भव्येभ्यो हितोपदेशदानादिना प्रयच्छतीति वीरो वा । तथा चोक्तं -
" अरहंतो भगवंतो अहियं चहियं च नवि इहं किंचि ।
करंति कारवं ति य घेत्तूण जणं बला हत्थे ॥" " उवएस पुण देंति जेण चरिएण कित्तिनिलयाणं ।
देवाण वि हुंति पहू किमंग पुण मणुयमित्ताणं ॥" आभिव्युत्पत्तिभिर्भगवतः स्वार्थसम्पत्परार्थसम्पच्चोपदार्शिता ।
वीरः सुभटः अपराजितः सन्नद्भुतकार्यकारी वा तथा चायमपि भगवान् महावीरः परीषहोपसर्गरनुकूलप्रतिकूलैरपराजितोऽद्भुतकर्मकारी मोक्षमार्गप्रणेता । तथा चोक्तं -
" कोहं माणं च मायं च लोभं पंचेंदियाणि य ।
दुज्जयं चेवमप्पाणं सव्वमप्पे जिए जियं ॥" " जो सहस्सं सहस्साणं संगामे दुज्जए जिए । एक्कं जिणेज्ज अप्पाणं एस से परमो जओ ॥"