________________
(3)
उष्णस्पर्शोऽनलादेर्यः शरीरस्थत्वहेतुना । जीवसंयोगजः स स्याज्ज्वरोष्मादिनिदर्शनात् ॥३९॥ आदित्यादेरुष्णभाव आत्मसंयोगसम्भवः । ततो न तैरनेकान्तो भाव्यमेवं मनीषिभिः ॥४०॥ घृताद्याहारतो वृद्धे-र्दर्शनात् सात्मकोऽनलः । दुग्धाद्याहारसंभोगाद् वर्द्धमानोऽर्भको यथा ॥ ४१ ॥ शक्तिप्रभावतो देवानां वपुर्न विलोक्यते । तथापि चेतनावत्स्या - देवं वायौ विचिन्त्यताम् ॥४२॥ यथाऽञ्जनमन्त्रविद्या- सिद्धनृणां वपुर्भवेत् । सचेतनमदृश्यं च वायावेषोपमा मता ॥ ४३ ॥ सूक्ष्मपर्यायतो दृश्यं वायौ रूपं तु चक्षुषा । अणुद्व्यणुकदृष्टान्ताद् रूपमस्तीति भाव्यताम् ॥४४॥ अन्याऽनपेक्षगन्तृत्वा-दनिलः सात्मको मतः । पुरुषान्तराऽनपेक्ष - गतिभन्महिषादिवत् ॥४५॥ तिरश्चीनाऽनियमिताऽपरप्रेरितदिग्गतेः । अनिलः सात्मकः प्रोक्तो गजाश्वादिनिदर्शनात् ॥४६॥ न चिन्त्योऽणावनेकान्तोऽनुश्रेणिगतिमत्त्वतः । यतो जीवपुद्गलयो – “ रनुश्रेणिगति "र्वचः ॥४७॥ वनस्पतिजीवत्वस्थापनम् |
अशोक - जम्बू - बकुलादिवृक्षा बाल्याद्यवस्थापरिणामवत्त्वात् ।
सचेतना मानुषदेहवत् स्युः विशेषता नो व्यवहारमागें ॥४८॥
यथा मनुष्यादिवपुर्विवर्द्धते प्रतिक्षणं बाल्ययुवादिभावतः ।
तथाऽङ्करादिक्रमतो विवृद्धितो देहास्तरूणामपि जीवशालिनः ॥ ४९ ॥ त्वचः सर्वप्रकारेणाऽपहारे मृतिदर्शनात् । तरवः सात्मका ज्ञेया गर्दभादिनिदर्शनात् ॥५०॥ शमीप्रपुन्नाट सिद्धे सरकाः सुन्दकास्तथा । बब्बुलागस्त्यामलकी - कड्याद्यास्तरवः स्मृताः ॥५१॥ ज्ञानेनाऽनुगतास्तेषां देहाः स्वापविबोधतः । मनुष्यदेहवत् प्रोक्ता जिनेशैस्तत्त्वदर्शिभिः ॥५२॥
( युग्मम् ) अधोनिखातद्रव्यस्य राशेर्यत् स्वप्ररोहतः । आवेष्टनं तरूणां स्यात् तत्तु चैतन्यलक्षणम् ॥५३॥ मेघ मेघनादेन शिशिरे वायुयोगतः । वटपिप्पलनिम्बादिद्रुमाणां या विकाशता ॥५४॥ सा तु चैतन्ययोगेन नरदेहविकाशवत् । पुत्रजन्म विवाहादि - हर्षाच्चैतन्ययोगतः ॥ ५५ ॥ सुगन्धिजलसेकेन चम्पकस्य विकाशिता । पञ्चमस्वरशब्देन शिरीषस्यापि सा मता ॥ ५६ ॥ सुरागण्डूषसेकेन चम्पकस्य विकाशिता । कटाक्षेक्षणतः सा स्यात्तिल के चैतन्यसम्भवा ॥ ५७ ॥ अङ्गनापादसम्पर्कात् अशोकाख्यदुमस्य यः । पल्लवकुसुमोद्भेदः स चैतन्यनिमित्तकः ॥५८॥ युवत्यालिङ्गनाज्ञेया पनसे या विकाशिता । सा सचेतनसम्भूता कामासक्तमनुष्यवत् ॥५९॥ -लजालूमुखसङ्कोचः करसम्पर्कयोगजः । सतीवत् परसम्बन्धात् स्याच्चैतन्यनिबन्धनः ॥६०॥ पद्मादिपुष्पाणि विकाशभाञ्जि प्रातस्तथा चन्द्रिकयोत्पलादेः ।
घोषातकीनां च प्रदोषकाले विकाशभावः स तु जीवहेतुः ॥ ६१ ॥