SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सटीकजंबूद्वीपसंङ्ग्रहणी अथ वर्षघरनगानां उच्चत्वं वर्णं वर्णयितुमाह । जोयणसयमुच्चिट्ठा कणयमया सिहरिचुल्ल हिमवंता । रूपिमहाहिमवंता दुसु उच्चारूप्पकणयमया ||२७|| जोयणसमुत्ति योजनशतोच्ची, कणयमयत्ति कनकमयौ सिहरिचुल्लहिमवंतत्ति शिखरि चुल्लहिमवन्तौ रूप्पमहाहिमवंतत्ति रूपिमहाहिमवंती दुसु उच्चत्ति द्विशतोच्चौ रूपकणयमयत्ति रूप्यकनकमयी इति पदसञ्चालना । अयं भावः । उदीचीनार्धस्थ ऐरवत हैरण्यवदन्तरालवर्ती शिखरी पूर्वव्यावर्णितस्वरूपो गिरिः योजनशतोच्चः स्वर्णश्च स्वर्णमयः । एवं दाक्षिणात्यार्धस्थो भरतहिमवदन्तरालवर्ती चुल्लहिमवन्नामा पूर्ववर्णितस्वरूपो नगः द्विशतयोजनोच्चः रूप्यमयश्च । एवं हिमवद्धरिवर्षान्तरालवती महाहिमवन्नगः द्विशतयोजनोच्चः कनकमयश्च | चार जोयणसए उच्चिट्ठो निसढनीलवंतो य । निसढो वणिज्जमओ वेरुलिओ नीलवंतो य' ।।२६।। .८४ wwwwwwww चत्तारिजोयणसयेत्ति चत्वारि योजनशतानि उच्चिट्ठोत्ति उच्चः निसढत्ति निषधः, नीलवतोयत्ति नीलवांश्च, निसठोत्ति निषधः तवणिज्जमओत्ति तपनीयमयः, वेरुलिओत्ति वैडूर्यः, नीलवंतो यत्ति नीलवांश्च । इति पदसंघटना । अयं भावः । विदेहदाक्षिणात्यो हरिवर्षत्रिदेहान्तरालवर्ती निषध: प्राक्प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः रक्तस्वर्णमयश्च । विदेहोदी चीनो रम्यग्विदेहान्तरालवर्ती नीलवान् प्रतिपादितस्वरूपः चतुः शतयोजनोच्चः नीलरत्नमयश्च इति । अथ सर्वेषां नगानामविशेषणावगाहत्वं दिदर्शयिषुस्तज्ज्ञापिकां युक्ति दर्शयन्नाह सीमन्धर स्वामिदत्तभवविरहाङ्काङ्कितो भगवान् हरिभद्रसूरिः । सवेव पच्यरा समयखित्तंमि मंदरविहूणा । धरणीतल मुवगाढा उस्सेह चउत्थभामि ॥२९॥ सव्वैवित्ति सर्वेऽपि पव्वयरत्ति पर्वताः, समयखित्तंमित्ति समयक्षेत्रे सार्धद्वयद्वीपे, मंदरविहूणत्ति मन्दरा मेरवस्तैः विहीना, धरणीतलत्ति घरणीतलं पृथ्व्यां उवगाढत्ति उपगूढा; उस्सेहच उत्थभायंमित्ति उत्सेधचतुर्थभागेन इति पदसघटना ॥ अयं भावः । समयक्षेत्रं कालक्षेत्रं तच्च सार्द्धद्वयद्वीपोदधिद्वयस्वरूपं । न तु कालस्य वर्तनारूपत्वाद् वर्तनायाश्चोत्पादव्ययरूपत्वात् संकलक्षेत्रव्यापित्वं तथाहि गुणपर्यायवद्द्रव्यमिति द्रव्यलक्षणात् तस्य चोत्पादव्ययध्रौव्ययुक्तं सदिति सत्त्वादुत्पादव्यययोश्च नवजीर्णोत्पादरूपवर्त्तनानतिक्रमा सकललोकालोकव्यापित्वं कालस्य, तत्कथं सार्धद्वयद्वीपसमुद्रद्वयरूपं कालक्षेत्रम् ? अत्राशाम्बरा स्वमीमांसा मांसलता सूचयन्तः स्वेषां तीर्थकृदान्तरोपकारित्वमाविष्कुर्वन्ति । ननु कालाणूनां लोकाकाशप्रदेशमितत्त्वं १ प्राचीनवृत्तावत्र 'नीलव ंतगिरि' इति पाठः ।
SR No.022269
Book TitleJambudwip Laghu Sangrahani
Original Sutra AuthorN/A
AuthorVijayodaysuri
PublisherJain Granth Prakashan Samiti
Publication Year1988
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy