________________
འབབ༠༠༠༠བབབས་བབས་བབབ•༠•འབབ༠བབབབས་བབབ་༠བའཁ•༠༠༠༠བབབས་ཡབབes7
- पूज्यपादाऽऽगमोद्वारकाऽऽचार्यश्रीलिखित____ प्रस्तावना-विषम-पदार्थसूचिका
* श्री आनन्द-लहरी-टिप्पणी
(पदपुरुषचरित्रोपक्रमः)
१ विदितम् ज्ञानविषयीकृतम्, तत्त्वम् यथार्थम्, अतत्वम्-अयथार्थ च रुपम्=पदार्थस्वरूपं येषाम्, तेषाम् ।
२ कर्मणाम् जीवोपात्तपुद्गलविशेषाणाम्, वैचित्र्यस्यमध्यवसाय=निबन्धनभूतरसवैविध्यापादितस्य यत् सामर्थ्यम्, तेन उपपादितम् अवस्थानाम्-विविधदशाविशेषाणां वैचित्र्यं येषाम्, तेषाम् ।
- ३ जीवितं च मरणं च, सुखं च दुःखं च, तदादयो ये प्रियाश्च अप्रियाश्च पदार्थाः, तेषां क्रमशः प्राप्तये परिहाराय च बद्धः कक्षः यैस्तेषामिति अर्थानुसारिणी व्युत्पत्तिस्त्राऽवबोद्धव्या ।
४ 'तत् ' पदेन एकधा प्रवृत्तेः परामर्शः, ततश्च “ एकधा प्रवृत्तेरभावे " इत्यर्थः । ५ अत्र 'फलम् ' इत्यानुसन्धानतो विवक्यम्, विवक्षावशात् शैलीवैचित्र्याद्वाऽत्राऽप्रयुक्तमपि । ६ भावयति मनः स्वश्रेष्ठतादिगुणैः यत तत्, प्रशस्यमित्यर्थः । ७ अभावुकम्-अप्रशस्यमित्यर्थः।
८ अत्र ह्येवमन्वयसङ्गतिः कार्या, " "दिका जिज्ञासा प्रादुर्भाव लभमाना तत्त्वज्ञाना.... लहरीयमाना (सती) मनसि स्थानं समिययात् ",
९ तत्त्वानाम्-हितकारिसत्यपदार्थानां ज्ञानम्=स्वरूपावबोधः, तदेवाऽमृतम, तस्य य उदधिः =समुद्रः, तस्य लहरीवदाचरमाणा इत्यर्थः ।
१० भावसम्पन्नानामित्यर्थः।।
११ आत्मनः=चैतन्यशक्तिविशिष्टस्य अवलोकनम् अन्तश्चक्षुषा अनुभवेन वा स्वरूपनिर्धारणम्, तस्मै लम्पटा-उत्कण्ठावती वृत्तिरिति व्युत्पत्तिरत्राऽवसेया।
१२ आत्मनः जीवद्रव्यस्य, अवबोधःयथार्थेन स्वरूपनिर्णयः, तस्य या सरणिस्ताम् । १३ उपहितम्-प्रवृत्तिविशेषतः विविधं फलं यासां ताः ।