________________
धर्मपरीक्षायाः टिप्पणी]
[१४१ ४६. निर्वसनाः - दिगम्बराः ये अमितगतिसूरयः, तैरातता = विरचिता, तस्याः । ४७. 'न ऊनता' इति सन्धिच्छेदः । ४८. समानं च तत् तन्त्रम् = शास्त्रम् , तस्य या रचना, तस्याः । ४९. समानं तन्त्रम् = शास्त्रं येषां तैर्विदृब्धं यत् शास्त्रम् , तस्य छायायाः = संस्कृतादिभाषान्तर
विधानम् , तस्याः विधानाऽऽदिवत् इति । ५०. बालानां बोधः, तदादि समं प्रयोजनं येषाम् , तत्त्वम् , तस्मात् । ५१. तथा = समानरचनादिरूपं विधानमिति । ५२. तथा = सदृशरचनाऽऽदिना प्रवृत्तिः, ताम् । ५३ धृता चाऽसौ धिषणा च, तस्याः धौरेयाः = वृषभा इति । ५६. उदन्वान् = सागरः मन्ते येषाम् ते ।
स...म्य....क्....ह....दि....धा........णी ...!!! |
० विरागतासम्पत्त्यै स्वाध्यायः परमावश्यकः । • विरागता हि शास्त्रज्ञताकषोपलः । • गोतार्थत्वं वै सद्गुरूपास्तिगम्य-शास्त्रज्ञतोपजिवितमस्ति । ।