________________
१४६]
[धर्मपरीक्षायाः टिप्पणी भ्राजिमुनिमण्डलरूपमहावटवृक्षप्रभेदरूपा, तस्याः ये विधातारः प्रभावकत्वेन प्रथितत्वकर्तारः, तैः पिहितानि-मान्यकृतानि सुन्दरोत्तमशासनसेवादीनि वस्तूनि, तान्येव पद्मानि, तेषां पद्मबन्धुः-सूर्यस्तद्वदाचरमाणा ये पद्मसागरगणयः, तैरूद्बोधिते इति व्युत्पत्तिस्त्र तात्पर्यानु
गुण्येन सङ्गमनीया । ५. स्वस्य अन्यस्य वा असाधारणं विशिष्टं यत् धर्मस्य धारणायाः-सुदृढास्थायाः धैर्य-धृत्तिमत्वं,
• तस्य प्रदामिति विग्रहः । ६. 'वसतिः' पदस्य अग्रेतनेन 'श्रद्धानलक्ष्म्याः ' इति पदेन सहाऽन्वयो ज्ञेयः । ७. क्षीरोदः क्षीरसमुद्रः, तस्य तनया-पुराणप्रथितदेवासुरविहितसमुद्रमथनप्रसङ्गोद्भूतरत्न
चतुर्दशकमध्ये प्रादुर्भवनेन पुत्री लक्ष्मीः, तस्याः । ८. भवे जन्मजरामरणादिविवर्तरूपे चातुर्गतिके संसारे या भ्रान्तिः विविधयोनिसमुत्पादः, तदेव दारिद्यम् आत्मलक्ष्मीराहित्यम् , तस्य दारणे-विनाशने दृब्धः आरम्भः यया इति ।
एतद्धि विशेषणमवेतन-"श्रद्धानलक्ष्म्याः " पदस्य ज्ञेयम् । ९. विश्रम्भः-सुदृढसमुचितविश्वासः, तस्य विधाने समुत्पादने नदीष्णा-निपुणा, तस्याः ।
.. एतदपि "श्रद्धानलक्ष्म्या " इत्यस्य विशेषणम् । १०. निष्णातः कुशलः, तस्य भावः-निष्णातत्वं, तस्य निबन्धनायाः प्रबलहेतुरूपायाः । इदं हि पदं "श्रद्धानन्दम्या" इति पदेन सह संयोज्यम् ।
एतत्पदेन पूज्यपादाऽऽगमोद्धारकाऽऽ चार्यदेवा एवं ध्वनयन्ति यत् यस्मिन् कस्मिन्नपि वस्तुनि निष्णातत्वं न ज्ञानप्राचुर्यमूलमभिमन्येत सद्भिः, परं विशिष्टयथार्थश्रद्धानबलेनैव
निष्णातत्वं निश्चप्रचं संगच्छते । ११. यथार्थं च तत् विश्वाधीशेन-त्रिलोकनाथेन व्याहृतं च यद् अव्याहतं-न केनाऽपि प्रबलतर्क
बुद्धिबलेनाऽपि विप्रकृष्टदेश-कालेऽपि वा प्रतिहन्तुं शक्यमेतादृशं वाङ्मय-शास्त्रम् , तस्य ज्ञप्तिः-ज्ञानं, तथा तस्य तदानुगुण्येनाऽऽचरणं, एतद्द्यं मूले यस्या इति ।
एतदपि पदं "श्रद्धानलक्ष्म्या " इत्यस्याऽवगन्तव्यम् ।
एतेन पदेनैवं सूच्यते यत् श्रद्धाऽप्यव्यक्तरूपा न हि श्रेयस्करी, किन्तु शास्त्रीयज्ञानसदनुकूलाऽऽचारशुद्धिद्वयसनाथैवाऽऽदरणीयेति ।