________________
६२६
श्रीयोगसारस्य मूलवृत्तानि, पञ्चमः प्रस्ताव:
सुखमग्नो यथा कोऽपि, लीनः प्रेक्षणकादिषु । गतं कालं न जानाति, तथा योगी परेऽक्षरे ॥३२॥ मृगमित्रो यदा योगी, वनवाससुखे रतः । तदा विषयशर्मेच्छा, मृगतृष्णा विलीयते ॥ ३३ ॥ वने शान्तः सुखासीनो, निर्द्वन्द्वो निष्परिग्रहः । प्राप्नोति यत्सुखं योगी, सार्वभौमोऽपि तत्कुतः ? ॥३४॥
जन्मभूत्वात्पुलिन्दानां वनवासे यथा रतिः ।
तथा विदिततत्त्वानां यदि स्यात् किमतः परम् ? ॥३५॥
"
एको गर्भे स्थितो जात, एक एको विनङ्क्ष्यसि । तथापि मूढ ! पल्यादीन् - किं ममत्वेन पश्यसि ॥३६॥
पापं कृत्वा स्वतो भिन्नं, कुटुम्बं पोषितं त्वया । दुःखं सहिष्यसे स्वेन, हा भ्रान्तोऽसि महान्तरे ॥३७॥ चलं सर्वं क्षणाद्वस्तु, दृश्यतेऽथ न दृश्यते । अजरामरवत्पापं, तथापि कुरुषे कथम् ? ॥३८॥ सप्तधातुमये श्लेष्म - मूत्राद्यशुचिपूरिते । शरीरकेऽपि पापाय, कोऽयं शौचाग्रहस्तव ॥ ३९ ॥
शारीरमानसैर्दु:खै - बहुधा बहुदेहिनः ।
संयोज्य साम्प्रतं जीव !, भविष्यसि कथं स्वयम् ? ॥४०॥
धर्मं न कुरुषे मूर्ख !, प्रमादस्य वशंवदः ।
कल्ये हि त्रास्यते कस्त्वां नरके दुःखविह्वलम् ? ॥४१॥
,
कन्धराबद्धपापाश्मा, भवाब्धौ यद्यधोगतः । क्व धर्मरज्जुसम्प्राप्तिः, पुनरुच्छलनाय ते ॥४२॥
दुःखरूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः । सोऽपि दुःखसहस्त्रेणा - नुविद्धोऽतः कुतः सुखम् ? ॥४३॥
दुःखितानखिलाञ्जन्तून्- पश्यतीह यथा यथा । तथा तथा भवस्यास्य, विशुद्धात्मा विरज्यति ॥४४॥
परिशिष्टम् १