________________
योगसार: ५ / ४८, ४९
चरमोपदेशः
अन्वयः
इति तत्त्वोपदेशौघक्षालितामलमानसो निर्द्वन्द्व उचिताचारः सर्वस्यानन्ददायकः स्वस्वरूपस्थितो योगी योगरसायनं पीत्वा निःशेषक्लेशनिर्मुक्तं परमं पदं प्राप्नोति
॥४८॥ ॥४९॥
-
पद्मीया वृत्तिः - इति ग्रन्थोक्तप्रकारेण तत्त्वोपदेशौघक्षालितामलमानसः तत्त्वानाम्-सारभूतभावानामुपदेशाः - हितशिक्षा इति तत्त्वोपदेशाः, तेषामोघः समूह इति तत्त्वोपदेशौघः, तेन क्षालितम् - धौतमिति तत्त्वोपदेशौघक्षालितम् एवम्भूतममलम्विशुद्धं मानसम् - चित्तं यस्येति तत्त्वोपदेशौघक्षालितामलमानसः, निर्द्वन्द्वः - निर्गता:क्षीणा द्वन्द्वा:- रागद्वेषादयो यस्मादिति निर्द्वन्द्वः, उचिताचारः - उचितो योग्य आचारःक्रियारूपो यस्येत्युचिताचारः, सर्वस्य सर्वजीवानाम्, आनन्ददायकः आनन्दस्यमुदो दायक:- अर्पक इत्यानन्ददायकः, स्वस्वरूपस्थितः - स्वस्य - निजं स्वरूपं - स्वभाव इति स्वस्वरूपम्, तस्मिन्स्थितः - रत इति स्वस्वरूपस्थितः, योगी - मोक्षसाधकः, योगरसायनम् - योग:-मुक्तिसाधक क्रियारूपः, तस्य रसायनम् - सार इति योगरसायनम्, तत्कर्मतापन्नम्, पीत्वा अभ्यस्य, निःशेषक्लेशनिर्मुक्तम् - निःशेषाः सर्वे च ते क्लेशाः-दोषाः कर्म्माणि वेति निःशेषक्लेशाः, तैर्निर्मुक्तम्-रहितमिति निःशेषक्लेशनिर्मुक्तम्, तत्कर्मतापन्नम्, परमम् - श्रेष्ठम्, पदम् - स्थानम्, प्राप्नोति - लभते ।
-
६०१
-
अस्मिन्ग्रन्थे ग्रन्थकृता पञ्चसु प्रस्तावेषु पञ्चोपदेशा दत्ता: । एतैरुपदेशैर्मुनेर्मनः क्षाल्यते । ततस्तन्निर्मलं भवति । जलेन शरीरवस्त्रादेर्मलः क्षाल्यते । एतद्ग्रन्थोक्तैर्भावैर्मुनेर्मिथ्याभावरूपो मलः क्षाल्यते । यथावस्थितदेवस्वरूपोपदेशेन मिथ्यात्वरूपो मलः क्षाल्यते । ततश्चात्मनि
શબ્દાર્થ - આ પ્રમાણે તત્ત્વના ઉપદેશોના સમૂહથી પખાળાયેલા નિર્મળ મનવાળો, દ્વન્દ્વો રહિત, ઉચિત આચારવાળો, બધાને આનંદ આપનારો, પોતાના સ્વરૂપમાં રહેલો યોગી યોગના રસાયણને પીને બધા ક્લેશોથી મુક્ત એવા પરમપદને પામે छे. (४८, ४९)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - આ ગ્રંથમાં ગ્રંથકારે પાંચ પ્રસ્તાવોમાં પાંચ ઉપદેશો આપ્યા. આ ઉપદેશો મુનિના મનને પખાળે છે. તેથી તે નિર્મળ થાય છે. પાણી શરીર-વસ્ત્ર વગેરેના મેલને ધોવે છે. આ ગ્રંથમાં કહેલા ભાવો મુનિના ખરાબ ભાવોરૂપી મેલને ધોવે છે. ભગવાનના સાચા સ્વરૂપના ઉપદેશ વડે મિથ્યાત્વરૂપી