________________
५८१
योगसारः ५/४३
संसारो दुःखरूपः अयमत्रोपदेशः-भवसमुद्रतरणार्थं पापं त्यक्तव्यं धर्मश्चाऽऽदरणीयः ॥४२॥
अवतरणिका - संसारे सुखं पश्यञ्जीवो धर्मे नोद्यच्छति । ततस्तस्मै संसारे सुखाऽभावं प्रतिपादयति - मूलम् - 'दुःखरूपेऽत्र संसारे, सुखलेशभ्रमोऽपि यः ।
सोऽपि दुःखसहस्रेणा-नुविद्धोऽतः कुतः सुखम् ? ॥४३॥ अन्वयः - दुःखरूपेऽत्र संसारे यः सुखलेशभ्रमोऽपि सोऽपि दुःखसहस्रेणानुविद्धोऽत: सुखं कुतः (स्यात्) ? ॥४३॥
पद्मीया वृत्तिः - दुःखरूपे - दुःख-कष्टं रूपं-स्वरूपं यस्येति दुःखरूपः, तस्मिन्, अत्र - अस्मिन्, संसारे - भवे, यः - जीवैरनुभूयमानः, सुखलेशभ्रमः - सुखस्यमुदो लेशः-लव इति सुखलेशः, तस्य भ्रमः-विपर्यास इति सुखलेशभ्रमः, अपिशब्दः सुखं तु नैव विद्यते सुखभ्रमोऽपि दुःखमिश्रो भवतीति द्योतयति, सः - सुखलेशभ्रमः, अपिशब्दो अन्यत्सर्वं तु दुःखरूपं भवति परन्तु सुखलेशभ्रमोऽपि दुःखमिश्रो भवतीति द्योतयति, दुःखसहस्रेण - दुःखानाम्-कष्टानां सहस्रम्-बहुत्वमिति दुःखसहस्रम्, तेन, अनुविद्धः - मिश्रितः, अतः - अस्मात्कारणात्, सुखम् - मुद्, कुतः - कथम् ? स्यादित्यत्राध्याहार्यम्, नैव कथञ्चित्स्यादित्यर्थः ।
अयं संसारो दुःखरूपः । संसारो दुःखस्याऽऽकरः । तत्र सततं दुःखं भवति ।
અહીં ઉપદેશ આ પ્રમાણે છે – ભવસમુદ્રને તરવા માટે પાપ છોડવું અને ધર્મ मावो. (४२)
અવતરણિકા - સંસારમાં સુખને જોતો જીવ ધર્મમાં ઉદ્યમ કરતો નથી. તેથી તેને સંસારમાં સુખના અભાવને જણાવે છે –
શબ્દાર્થ - દુઃખના કૂવા સમાન આ સંસારમાં જે થોડો સુખનો ભ્રમ છે તે પણ હજારો દુઃખોથી મિશ્રિત છે, માટે સુખ ક્યાંથી હોય? અર્થાતુ ન હોય. (૪૩)
પવીયાવૃત્તિનો ભાવાનુવાદ - આ સંસાર દુઃખરૂપ છે. સંસાર દુઃખનો ભંડાર १. दुःखरूपोऽत्र - G, दुःखकूपे .... MI