________________
५२८
स्वात्मा स्वहिते योक्तुं मुनीन्द्रैरपि दुष्करः। योगसारः ५/२९ जनेभ्य उपदेशं ददाति, न तु स्वयं यथोक्तं चारित्रं पालयति । ततस्तस्मै उपदिशति - मूलम् - उपदेशादिना किञ्चित् - कथञ्चित् कार्यते परः ।
स्वात्मा तु स्वहिते योक्तुं, मुनीन्द्रैरपि 'दुष्करः ॥२९॥ अन्वयः - उपदेशादिना पर: किञ्चित् कथञ्चित् कार्यते, मुनीन्द्रैरपि स्वात्मा तु स्वहिते योक्तुं दुष्करः ॥२९॥
पद्मीया वृत्तिः - उपदेशादिना - उपदेशः-परस्य कथनमादौ यस्य आज्ञाबलाभियोग-प्रशंसा-लोभनादेरित्युपदेशादिः, तेन, परः-स्वातिरिक्तः, किञ्चित् - अल्पमपि, कथञ्चित् - केनापि प्रकारेण, कार्यते - प्रवर्त्यते, मुनीन्द्रैः - मुनिषु-साधुष्विन्द्राःप्रवरा इति मुनीन्द्राः महामुनय इत्यर्थः, तैः, अपिशब्दो अन्यैस्तु स्वात्मा स्वहिते योक्तुं दुष्कर एव, परन्तु मुनीन्द्रैरपि दुष्कर इति द्योतयति, स्वात्मा - स्वः, तुशब्द उपदेशदानस्य सौकार्यापेक्षया वैपरीत्यं द्योतयति, स्वहिते - स्वस्य-आत्मनो हितम्-कल्याणमिति स्वहितम्, तस्मिन्, योक्तुम् - प्रवर्त्तयितुम्, दुष्करः - कृच्छ्रसाध्यः ।
परेभ्य उपदेशदानं सुकरम् । उपदेशदाने उपदेशकेन स्वयं न किमपि कर्त्तव्यम् । तेन केवलमन्येभ्यः प्रेरणा कर्त्तव्या । ज्ञानावरणक्षयोपशमवानुपदेशदाने पटुर्भवति । स वाक्चातुर्येण परं रञ्जयति । उपदेशदानेन परेण धर्मः कारयितुं शक्यते । परं कथञ्चित्प्रलोभयित्वाऽपि तेन धर्मः कारयितुं शक्यते । बलाभियोगेनाऽपि परेण धर्मः कारयितुं शक्यते । आज्ञयाऽपि नथी. तेथी तेने उपहेश सापे छ -
શબ્દાર્થ - ઉપદેશ વગેરેથી બીજા પાસે કોઈ પણ રીતે કંઈ પણ કરાવાય છે. મહામુનિઓ માટે પણ પોતાનો આત્મા પોતાના હિતમાં જોડવો મુશ્કેલ છે. (૨૯)
પધાયાવૃત્તિનો ભાવાનુવાદ - બીજાને ઉપદેશ આપવો સહેલો છે. ઉપદેશ આપવામાં ઉપદેશકે કંઈ પણ કરવાનું હોતું નથી. તેણે માત્ર બીજાઓને પ્રેરણા કરવાની હોય છે. જ્ઞાનાવરણકર્મના ક્ષયોપશમવાળો ઉપદેશ આપવામાં હોંશિયાર હોય છે. તે વાણીની ચતુરાઈથી બીજાને ખુશ કરે છે. ઉપદેશ આપીને બીજા પાસે ધર્મ કરાવી શકાય છે. બીજાને કોઈક રીતે પ્રલોભન આપીને પણ તેની પાસે ધર્મ १. दुष्करम् - A, B, C, E, L, दुःकरः - D. F, KI