________________
१९
परमकृपालुपरमात्मनां परमपूज्य भीमभवोदधितारकगुरुदेव वैराग्यदेशनादक्षाचार्यदेवश्रीमद्विजयहेमचन्द्रसूरीश्वराणाञ्च कृपाप्रेरणामार्गदर्शनैरेव मयाऽस्य ग्रन्थस्य संशोधन - वृत्तिसर्जन - अनुवादसम्पादनानि कृतानि । तान्पूज्यान्कृतज्ञभावेनाऽनन्तशो वन्दे ।
सवृत्तिकस्याऽस्य ग्रन्थस्य संशोधने वृत्तिनिर्माणेऽनुवादे सम्पादने च या काचित् क्षति: कृता जाता वा स्यात्तत्कृते क्षमां याचे विदुषश्च तच्छुद्ध्यर्थं प्रार्थये ।
पुस्तकस्थोऽयं ग्रन्थो हृदयस्थो जीवनस्थ आत्मस्थश्च करणीयः । सवृत्तिकमेनं ग्रन्थमभ्यस्य सर्वे जीवा अन्तर्मुखीभूय शीघ्रं परमपदं प्रत्युन्मुखा भवन्त्वित्यभिलषति
पिण्डवाडा (राजस्थान )
वि.सं. २०६९, अषाढ शुक्ल ६, (प्रभुवीरच्यवनकल्याणकदिनम् )
परमपूज्यवैराग्यदेशनादक्षाचार्यदेव श्रीमद्विजयहेमचन्द्रसूरीश्वराणां शिष्याणुः रत्नबोधिविजयो मुनिः ।