________________
४३४ सत्त्वमवलम्बनीयम्
योगसारः ४/४२ अवतरणिका - सत्त्वसारैकमानसैजिनधर्मः साध्य इत्युक्तम् । अधुना चतुर्थप्रस्तावस्याऽन्तिमश्लोकेन जिनधर्मे उद्यमकरणार्थमुपदिशति - मूलम् - ततः सत्त्वमवष्टभ्य, त्यक्त्वा कुग्राहिणां ग्रहम् ।
क्रियतां भोः सुधर्मस्य, करणायोद्यमः सदा ॥४२॥
'इति 'श्रीयोगसारे सत्त्वोपदेशश्चतुर्थः प्रस्तावः । अन्वयः - भोः ! ततः सत्त्वमवष्टभ्य कुग्राहिणां ग्रहं त्यक्त्वा सुधर्मस्य करणाय सदोद्यमः क्रियताम् ।
पद्मीया वृत्तिः - भोः - श्रोतृजनानां सम्बोधने, ततः - तस्मात् कारणात्, सत्त्वम् - सहजबलरूपम्, अवष्टभ्य - अवलम्ब्य, कुग्राहिणाम् – कुत्सितो ग्रहोऽस्त्येषामिति कुग्राहिणः-कदाग्रहवन्तः, तेषाम्, ग्रहम् - आग्रहं भावं मतं धर्मं वा, त्यक्त्वा - हित्वा, सुधर्मस्य - शीलाङ्गपालनरूपस्य मोक्षप्रदस्य सर्वविरतेः, करणाय - पालनाय, सदा - नित्यम्, उद्यमः - प्रयत्नः, क्रियताम् - अनुष्ठीयताम् ।
अस्मिन्प्रस्तावे ग्रन्थकृता विविधयुक्तिभिः सत्त्वस्य माहात्म्यं प्रदर्शितम् । तेन हीनसत्त्वानां स्वरूपं प्रदर्शितम् । सात्त्विकस्य किमप्यशक्यं नास्तीति तेन प्रतिपादितम् । सात्त्विक एव लोकोत्तरं सर्वविरतिधर्मं कर्तुं शक्नोतीति तेन साधितम् । अस्मिन्श्लोके
અવતરણિકા - સાત્વિક મનવાળા જીવો જિનધર્મને સાધે છે એમ કહ્યું. હવે ચોથા પ્રસ્તાવના છેલ્લા શ્લોક વડે જિનધર્મમાં ઉદ્યમ કરવા માટે ઉપદેશ આપે છે –
શબ્દાર્થ - અરે! તેથી સત્ત્વનું આલંબન લઈને કદાગ્રહીઓના આગ્રહને છોડીને શીલાંગોના પાલનરૂપ સારા ધર્મનું પાલન કરવા હંમેશા ઉદ્યમ કરવો. (૪૨)
પવીયાવૃત્તિનો ભાવાનુવાદ - આ પ્રસ્તાવમાં ગ્રંથકારે વિવિધ યુક્તિઓ વડે સત્ત્વનું માહાસ્ય બતાવ્યું. તેમણે અલ્પસત્ત્વવાળાઓનું સ્વરૂપ બતાવ્યું. સાત્ત્વિક માટે કંઈ પણ અશક્ય નથી, એમ તેમણે જણાવ્યું. સાત્ત્વિક જ લોકોત્તર સર્વવિરતિ
१. कुग्राहिणं - C। २. भो - C, F G KI ३. कारणायोद्यमः - CI ४. इति० चतुर्थः सत्त्वोपदेशप्रस्तावः । - D, सत्त्वोपदेशप्रस्तावः ॥४ - K, इति श्रीयोगसारे सत्त्वोपदेशश्चतुर्थः प्रस्तावः समाप्त: - GI ५. योगसारे-LI