________________
परिणतिं विना ज्ञानं बहूपयोगि न भवति । परिणतं ज्ञानमध्यात्ममार्गे प्रवर्त्तयति । शुष्कं ज्ञानं भाररूपं भवति । ज्ञानं खलु साधनम् । तेनाऽऽत्मगुणसमृद्धि प्रत्यभिज्ञाय तत्प्राप्त्यर्थं प्रयतनीयम् । ज्ञानेन बहि: न प्रवर्धनीयं परन्त्वन्तः प्रवर्धनीयम् । ज्ञानी सांसारिककार्येषु न निमज्जति । स स्वात्मनि निमज्जति । तत एव स विश्वं नूतनदृष्ट्या पश्यति । अतो ज्ञानप्राप्त्यनन्तरं बहिर्भावेषु निर्लेपीभूयाऽध्यात्ममार्गे प्रवर्त्तनीयम् ।
अध्यात्ममार्गे प्रवर्त्तको ग्रन्थो 'योगसारः ' । मोक्षप्रापिकाः सर्वा आराधना योगरूपाः । सर्वासामाराधनानां सारः आत्मविशुद्धिं कृत्वा परमात्मत्वप्राप्तिः । योगसारेऽयं सारः सुष्ठु विवेचितः ।
ज्ञानसिद्धो न लिप्यते
अयं मूलग्रन्थः पञ्चप्रस्तावात्मकः । षट्चत्वारिंशद्वृत्तात्मके प्रथमे प्रस्तावे परमात्मनो यथावस्थितं स्वरूपमुपदिष्टम् । अष्टत्रिंशवृत्तात्मके द्वितीये प्रस्तावे तत्त्वसाररूपो धर्म उपदिष्टः । एकत्रिंशद्वृत्तात्मके तृतीये प्रस्तावे समतोपदिष्टा । द्विचत्वारिंशद्वृत्तात्मके चतुर्थे प्रस्तावे सत्त्वमुपदिष्टम् । एकोनपञ्चाशद्वृत्तात्मके पञ्चमे प्रस्तावे भावशुद्धिरुपदिष्टा । इत्थमयं ग्रन्थः षडधिकद्विशतवृत्तप्रमाणः । संस्कृतभाषानिबद्धेऽनुष्टुब्वृत्तगुम्फितेऽस्मिन्ग्रन्थे ग्रन्थकारेण तत्तत्प्रस्तावगतविषया दृष्टान्ततर्कादिपुरस्सरं सुष्ठु प्रज्ञापिताः । सरलपद्धत्या रचितानां वृत्तानां शब्दार्थबोध: सुगमः । सततं बाह्यभावेषु निमग्नस्याऽऽत्मनोऽन्तर्मुखीकरणार्थमयं ग्रन्थोऽतीवोपयोगी ।
अज्ञातनामधेयैः पूर्वाचार्यैरयं ग्रन्थः सन्दृब्धः । निःस्पृहसत्तमैस्तैर्ग्रन्थे क्वाऽपि स्वनामोल्लेखो न कृतः । साधकप्रष्ठैस्तैरनेकशास्त्राण्यवगाह्य स्वानुभवनवनीतमस्मिन्ग्रन्थे भृतम् । अस्य ग्रन्थस्य विरचनेन तैर्वयं बहूपकृताः । ग्रन्थे क्वाऽपि रचनासंवत्सरस्याऽनुपलब्ध्या ते कदा महिमण्डल - मलञ्चक्रुः कदा च तैरयं ग्रन्थो विरचित इति न ज्ञायते । ग्रन्थग़तवृत्तानि सरलानि परन्तु रहस्यार्थभृतानि । ते रहस्यार्थाश्चिन्तनगम्याः ।
अनेकहस्तलिखितप्रतिसाहाय्येन मयाऽयं मूलग्रन्थः संशोधितः । उपलब्धहस्तलिखितमुद्रितप्रतीनां सङ्कलनां कृत्वा मयोचित्तः पाठो मूलवृत्तेषु निबद्ध: पाठान्तराणि च टिप्पण्यां न्यस्तानि । संशोधनोपयुक्तहस्तलिखितमुद्रितप्रतीनां परिचय एवं ज्ञेयः
पत्तनस्थश्रीहेमचन्द्राचार्यज्ञानमन्दिरसत्कायामस्यां प्रत्यां लेखनसंवत्सरो नोपलभ्यते ।
A
-
-