________________
२३२ कषायविषयस्वरूपम्
योगसारः ३/५,६ ___ अवतरणिका - द्वितीयवृत्ते विषयकषाया दुःखमिति प्रथमं तत्त्वं प्रतिपादितम् । अतः श्लोकयुग्मेन कषायविषयस्वरूपं प्रकटयति - मूलम् - अपराधाक्षमा क्रोधो, मानो जात्याद्यहङ्कृतिः ।
लोभः पदार्थतृष्णा च, माया कपटचेष्टितम् ॥५॥
शब्दरूपरसस्पर्श-गन्धाश्च मृगतृष्णिकाः।
दुःखयन्ति जनं सर्वं, सुखाभासविमोहितम् ॥६॥॥युग्मम् ॥ अन्वयः - क्रोधोऽपराधाऽक्षमा, मानो जात्याद्यहङ्कृतिः, लोभः पदार्थतृष्णा, माया च कपटचेष्टितम्, शब्दरूपरसस्पर्शगन्धाश्च मृगतृष्णिकाः (-एते कषायविषयाः) सुखाभासविमोहितं सर्वं जनं दुःखयन्ति ॥५॥६॥
पद्मीया वृत्तिः - क्रोधः - अमर्षरूपः, अपराधाऽक्षमा - न क्षमेत्यक्षमा-क्षमाऽभावः, अपराधानाम्-स्खलनानामक्षमेति अपराधाऽक्षमा, मानः - उत्कर्षरूपः, जात्याद्यह
कृतिः - जातिः-मातृसत्का आदौ येषां कुल-बलैश्वर्य-लाभ-रूप-तपः-श्रुतादीनामिति जात्यादयः, तेषामहङ्कृतिः-अहङ्कार इति जात्याद्यहङ्कृतिः, लोभः - असन्तोषः, पदार्थतृष्णा - पदार्थानां वस्तूनां तृष्णा-अभिलाषेति पदार्थतृष्णा, माया - निकृतिः, चशब्दः समुच्चये, कपटचेष्टितम् - कपटेन-वक्रतया चेष्टितम्-चेष्टाकरणमिति कपटचेष्टितम्, शब्दरूपरसस्पर्शगन्धाः-शब्द:-श्रोत्रेन्द्रियविषयः, रूपम्-चक्षुरिन्द्रियविषयः, रसःरसनेन्द्रियविषयः, स्पर्शः-स्पर्शनेन्द्रियविषयः, गन्धः-घ्राणेन्द्रियविषयः, शब्दश्च रूपञ्च
અવતરણિકા - બીજા શ્લોકમાં કષાયો-વિષયો દુઃખરૂપ છે, એવું પહેલું તત્ત્વ पताव्यु. तेथी पायो-विषयोन। २५३५ने प्रगट ४२ छ - -
શબ્દાર્થ - અપરાધની ક્ષમા ન કરવી તે ક્રોધ, જાતિ વગેરેનો અહંકાર તે માન, પદાર્થોની તૃષ્ણા તે લોભ, કપટપૂર્વકનું આચરણ તે માયા અને શબ્દ-રૂપ-રસસ્પર્શ-ગંધ ઝાંઝવાના નીર જેવા છે. આ કષાયો-વિષયો સુખના આભાસથી મોહિત थयेला 4 लोडीने हु:ची ४२ छ. (५,६)
१. च वञ्चनात्मिका - C, H, || २. D प्रतौ 'अपराधाक्षमा ... ॥५॥' इति श्लोकानन्तरं 'सर्वसङ्ग ... ॥३॥' इति श्लोक उपन्यस्तः, ततः 'शब्दरूप ... ॥६॥' इति श्लोक उपन्यस्तः ।