SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २३० सूक्ष्मबुद्धीनामप्येतद्वयं दुर्भेदम् योगसारः ३/४ अवतरणिका - द्वितीयतृतीयश्लोकयो· तत्त्वे प्रतिपादिते । ते द्वे तत्त्वे निपुणमतयोऽपि ये सुष्ठ ज्ञातुमनुष्ठातुं च न शक्नुवन्ति तेषां दशा शोच्येति ज्ञापयति - मूलम् - सूक्ष्माः सूक्ष्मतरा भावा, 'भेद्यन्ते सूक्ष्मबुद्धिभिः । एतद्द्वयं तु दुर्भेद, तेषामपि हि का गतिः ॥४॥ अन्वयः - सूक्ष्मबुद्धिभिः सूक्ष्माः सूक्ष्मतरा भावा भेद्यन्ते । तेषामपि एतद् द्वयं तु दुर्भेदं हि, (अतस्तेषां) का गतिः (भविष्यति) ॥४॥ __ पद्मीया वृत्तिः - सूक्ष्मबुद्धिभिः - सूक्ष्मा-सूक्ष्मपदार्थबोधविधायिनी बुद्धिः-प्रज्ञा येषां ते सूक्ष्मबुद्ध्यः, तैः, सूक्ष्माः - दुर्बोधाः, सूक्ष्मतराः - अतिशयेन दुर्बोधाः, भावाः – पदार्थाः, भेद्यन्ते - ज्ञायन्ते । तेषाम् - सूक्ष्मंसूक्ष्मतरपदार्थभेदकसूक्ष्मबुद्धिमताम्, अपिशब्दो अन्येषां त्वेतद्वयं दुर्भेदमेव, सूक्ष्मबुद्धीनामप्येतद्द्वयं दुर्भेदमिति द्योतयति, एतद् - पूर्वश्लोकद्वयोक्तम्, द्वयम् - विषयकषाया दुःखं सर्वसङ्गत्यागश्च सुखमिति द्वे तत्त्वे, तुशब्दः पक्षान्तरद्योतने, दुर्भेदम् - दुःखेन भिद्यते-बुध्यते इति दुर्भेदम्-दुर्बोधम्, हिशब्द एवकारार्थः, स च तत्त्वद्वयस्य सुबोधत्वं व्यवच्छिनत्ति, अतस्तेषामित्यत्राध्याहार्यम्, का - किंस्वरूपा, गतिः - दशा, भविष्यतीत्यत्राध्याहार्यम् । ___ सूक्ष्मबुद्धीनां ज्ञानावरणक्षयोपशमस्तीव्रो भवति । ततस्तेऽतिदुर्बोधानपि पदार्थान्सम्यग्जानन्ति । मध्यमबुद्धयोऽल्पबुद्धयो वा तान्पदार्थाज्ञातुं न शक्नुवन्ति, तेषां ज्ञानावरणक्षयोपशमस्य मध्यमत्वात् मन्दत्वाद्वा । केचनसूक्ष्मबुद्धयोऽपि पूर्वोक्तं तत्त्वद्वयं ज्ञातुमनुष्ठातुं वा નિપુણ બુદ્ધિવાળા એવા પણ જેઓ સારી રીતે જાણી અને આચરી શકતાં નથી તેમની દશા દયાપાત્ર છે એમ જણાવે છે - શબ્દાર્થ - સૂક્ષ્મ બુદ્ધિવાળા જીવો સૂક્ષ્મ અને અતિસૂક્ષ્મ ભાવોને જાણે છે. તેમને भाटे ५९ मे तो मुश्दीथी. ४९।५ मेपा छे. भाटे तेभनु शुं थशे ? (४) પશ્ચીયાવૃત્તિનો ભાવાનુવાદ - સૂક્ષ્મ બુદ્ધિવાળાઓનો જ્ઞાનાવરણ કર્મનો ક્ષયોપશમ તીવ્ર હોય છે. તેથી તેઓ બહુ મુશ્કેલીથી જાણી શકાય એવા પદાર્થોને સારી રીતે જાણે છે. મધ્યમ બુદ્ધિવાળા કે અલ્પ બુદ્ધિવાળા તે પદાર્થોને જાણી શકતાં નથી, કેમકે તેમનો જ્ઞાનાવરણ કર્મનો ક્ષયોપશમ મધ્યમ અને મંદ હોય છે. કેટલાક સૂક્ષ્મ બુદ્ધિવાળા પણ પૂર્વે કહેલા બે તત્ત્વોને જાણી કે આચરી શકતા નથી. તેમનો १. भिद्यन्ते - C, H, I, २. दुर्भेद्यं - FI
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy