SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २२० साम्यं समस्तधर्माणां सारः योगसारः २/३८ मूलम् - साम्यं समस्तधर्माणां, सारं ज्ञात्वा ततो बुधाः । बाह्यं दृष्टिग्रहं मुक्त्वा , चित्तं कुरुत निर्मलम् ॥३८॥ इति 'श्रीयोगसारे तत्त्वसारधर्मोपदेशको द्वितीयः प्रस्तावः । अन्वयः - बुधाः ! ततः समस्तधर्माणां सारं साम्यं ज्ञात्वा बाह्यं दृष्टिग्रहं मुक्त्वा चित्तं निर्मलं कुरुत ॥३८॥ पद्मीया वृत्तिः - बुधाः ! - हे विद्वांसः !, ततः - यतः क्षमादिः सर्वश्रेष्ठधर्मः साम्यवतामेव भवति तस्मात्कारणात्, समस्तधर्माणाम् - समस्ताः-सर्वे च ते धर्माश्चेति समस्तधर्माः, तेषां, सारम् - ऐदम्पर्यम्, साम्यम् - समताम्, ज्ञात्वा - अवबुध्य, बाह्यं - बहिर्भवमिति बाह्यम्-व्यावहारिकम्, दृष्टिग्रहम् - दृष्टेः-दर्शनस्य ग्रह:-अभिनिवेश इति दृष्टिग्रहः, तं, मुक्त्वा - परित्यज्य, चित्तं - मानसम्, निर्मलम् - रागादिदोषविमुक्तम्, कुरुत - सम्पादयत। ग्रन्थकारोऽस्मिन्श्लोके विदुषः सम्बोधयति । स कथयति - यतः साम्यवतामेव सर्वश्रेष्ठो धर्मो भवति ततः साम्यमेव सर्वधर्माणां सारभूतं ज्ञेयम् । यत्र साम्यं भवति तत्र धर्मो भवति, यत्र साम्यं न भवति तत्र धर्मो न भवति । यत्र साम्यं न भवति तत्र धर्मवद्भासमानो શબ્દાર્થ - હે પંડિતજનો ! તેથી બધા ધર્મોનો સાર સમતા છે, એમ જાણીને पाय शनोनो हाड छोडीने यित्तने निर्म रो. (3८) પીયાવૃત્તિનો ભાવાનુવાદ - ગ્રંથકાર આ શ્લોકમાં વિદ્વાનોને સંબોધન કરે છે. તેઓ કહે છે કે – જે કારણથી સમતાવાળાઓને જ સર્વશ્રેષ્ઠ ધર્મ હોય છે, તેથી સમતાને બધા ધર્મોના સારરૂપ જાણવી. જ્યાં સમતા હોય છે, ત્યાં ધર્મ હોય છે. જયાં સમતા નથી, ત્યાં ધર્મ નથી. જયાં સમતા નથી ત્યાં ધર્મ જેવો લાગતો १. योगसारनाम्नि० द्वितीयस्तत्त्वसारधर्मोपदेशप्रस्तावः। - D. योगसारे तत्त्वसारधर्मोपदेशो द्वितीयः समाप्तः । - E, योगसारे तत्त्वसारधर्मोपदेशः प्रस्तावः ॥ २ - K, योगसारे तत्त्वसारधर्मोपदेशको द्वितीयः प्रस्तावः ।- LI
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy