SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १५६ मोहान्थ्यस्य स्वरूपम् योगसारः २/९,१० सारः, परकीयाः (आगमाः) तु असारकाः, वयमेव तात्त्विकाः, भ्रान्ता अन्ये सर्वेऽप्यतात्त्विकाः, इति (विचार्य) मत्सरिणः तत्त्वसारतो दूरोत्सारिताः (भवन्ति) ॥९॥ ॥१०॥ पद्मीया वृत्तिः - मदीयं - मत्सम्बन्धि, दर्शनम् - धर्मः, मुख्यम् - प्रधानम्, अपराणि - मदीयदर्शनाद्व्यतिरिक्तानि, दर्शनानीत्यत्राध्याहार्यम्, तु - पुनः, पाखण्डानिअसाराणि, मदीयः - मदिष्टः, आगमः - शास्त्रम्, सारः - प्रधानम्, परकीयाः - परसम्बन्धिनः, 'आगमाः' इत्यत्राऽध्याहार्यम्, तु - पुनः, असारकाः- न सारा इत्यसाराः, असारा एव असारकाः, अप्रधाना इत्यर्थः, वयम् - अहं मम चानुयायिनः, एवशब्दो - अन्येषां तात्त्विकत्वं व्यवच्छिनत्ति, तात्त्विकाः - तत्त्ववेत्तारः, भ्रान्ताः - मिथ्यज्ञानवन्तः, अन्ये - अस्मद्व्यतिरिक्ताः, सर्वे - सकलाः, अपिशब्दो न केचित्, किन्तु सर्वेऽपीति द्योतयति, अतात्त्विकाः - तत्त्वज्ञानविकलाः, इति - अनेन प्रकारेण, 'विचार्य' इत्यत्राऽध्याहार्यम् मत्सरिणः - मत्सरोऽस्ति एषामिति मत्सरिणः-ईर्ष्या कुर्वाणाः, तत्त्वसारतः - तत्त्वं-वस्तुनः सत्यं स्वरूपम्, तस्य सारः-निस्यन्द इति तत्त्वसारः, तस्मात्, दूरोत्सारिताः - दूरं-विप्रकृष्टमुत्सारिताः-क्षिप्ता इति दूरोत्सारिताः, भवन्तीत्यत्राऽध्याहार्यम् । मोहान्धजीवाः परस्परं मत्सरं कुर्वन्ति । ते स्वाभिमतं दर्शनमेव तात्त्विकं मन्यन्ते । अन्यानि दर्शनानि ते बाह्याऽऽडम्बररूपाणि मन्यन्ते । ते स्वाभिमतं शास्त्रमेव कष-छेदताप-परीक्षोत्तीर्णं मन्यन्ते । अन्येषां शास्त्राणि ते तत्त्वविकलानि मन्यन्ते । ते स्वात्मानमेव तत्त्वज्ञानिनं मन्यन्ते । अन्याँस्तु ते भ्रान्तान् तत्त्वज्ञानविकलान् मूर्खान् मन्यन्ते । इत्थं तेषां हृदयं मत्सरेण व्याप्तं भवति । ते सर्वत्र स्वात्मानमेव प्रधानभूतमीक्षन्ते । तेऽन्यांस्तुच्छान् છીએ, ભ્રમવાળા બીજા બધા તત્ત્વ વિનાના છે આ પ્રમાણે ઇર્ષ્યા કરનારા ઇર્ષાળુઓ तत्प३५ सारथी दू२ थाय छे. (८,१०) પવીયાવૃત્તિનો ભાવાનુવાદ - મોહથી આંધળા જીવો એક બીજા ઉપર ઈર્ષ્યા કરે છે. તેઓ પોતે માનેલા ધર્મને જ સાચો માને છે. બીજા ધર્મોને તેઓ માત્ર બહારના દેખાવવાળા માને છે. તેઓ પોતે માનેલા શાસ્ત્રને જ કષ-છેદ-તાપની પરીક્ષામાંથી પાર ઊતરેલ માને છે. બીજાના શાસ્ત્રોને તેઓ તત્ત્વ વિનાના માને છે. તેઓ પોતાને જ તત્ત્વજ્ઞાની માને છે, બીજાઓને તો તેઓ ભ્રમવાળા, તત્ત્વ વિનાના અને મૂર્ખ માને છે. આમ તેમનું હૃદય ઇર્ષ્યાથી ભરેલું હોય છે. તેઓ બધે પોતાને જ ચઢિયાતાં માને
SR No.022255
Book TitleYogsar Part 01
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages350
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy