________________
क्षेत्र-स्पशनाप्रकरणं यावच्छीवीरस्वामिनस्तीर्थं तावन्नन्दतु, भव्यजननयन-वदन-मानसादीन्यनवद्यान्याधाराण्यवाप्येति शेषः ॥३२-३३।।
वीराब्दे हयनारदनदीशनयनाङ्किते । प्रणीतं प्रेमसूरीश-गच्छेशकृपया त्विदम् ॥१॥ संशोधितं तु तैः पूज्यैः, पूज्यैः प्रज्ञावरैस्तथा । जयघोषमुनिप्रष्ठै-धर्मानन्दादिसाधुभिः ॥२॥ आदौ मध्येऽन्त्ये वा, कुत्राप्यत्र सविवेचने ग्रन्थे यज्जिनवचनातीतं किमपि स्याद्भवतु तन्मिथ्या ॥३॥
॥ इति स्वोपज्ञटीकाविभूषितं
क्षेत्रस्पर्शनाप्रकरणं समाप्तम् ॥
॥ शुभं भूयात्सर्वेषाम् ॥
६५