SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ तदेवमभिहिता तुल्यवक्तयत्वादतिदेशेनैव सर्वमार्गणाभेदेषु जीवानां स्वस्थानस्पर्शना । साम्प्रतं शेषत्रिविधां यथासम्भवमाहरिये सत्तमणिरये, भागा छ दुहा गमागमा णत्थि । भागा इह पत्तेयं, तसनाडिगयघणरज्जुरुवा ॥१४॥ " णिरये" इत्यादि, नरकगत्यो सप्तमभूमि- नरकभेदे च " भागा छ दुहा" त्ति 'गमागमा णत्थि ' इत्यनेनाऽनुपदं गमनागमनकृतस्पर्शनायाः प्रतिषेत्स्य मानत्वात् स्वस्थानस्पर्शनाया अनन्तरमेवातिदिष्टत्वाच्च 'द्विधा'- उपपातसमुद्घातलक्षणप्रकारद्वयापन्ना स्पर्शना षड् भागा भवतीत्यर्थः । “गमागमा णत्थि " त्ति देवानामिहाप्रवेशेन स्वस्थानक्षेत्राद्विशिष्टा काचिद्गमनागमनकृता स्पर्शना नास्ति, न पुनः सर्वथा नास्तीत्यर्थः । इत्थमेवोत्तरत्रापि गमनागमनकृतस्पर्शनाप्रतिषेधे सा स्वस्थानाद्विशिष्टा नास्तीत्येवंरूपेण प्रतिषेधो ज्ञेयः, न पुन: सर्वथेति । ननु कियन्माना इमे प्रत्येकं भागा इत्याह- " "भागा" इत्यादि, इह स्पर्शनाप्रस्तावे ऽनन्तरोक्ता वक्ष्यमाणाश्च भागाः प्रत्येकमेक-रज्जुवृत्तविस्तृत - चतुर्दशरज्जुच्छ्रितत्रसनाडिगतघनरज्जुरूपा ज्ञातव्याः । प्रत्येकं भागस्त्रसनाड्या एकचतुर्दशांशमानो भवतीति भावः । तथा च नरकौघसप्तमपृथिवीनरकभेदयोरुपपाततः समुद्घाततश्च षट् चतुर्दशांशास्त्रसनाडे: स्पर्शना । तथाहि - * ' अर्धतृतीयद्विपसमुद्रान्तर्वर्तिनि आकाशे सर्वव्याप्त्या सिद्धा' इत्यादि- वचनात् पञ्चचत्वारिंशल्लक्षयोजनवृत्तविस्तृतमनुष्यक्षेत्रे * सिद्धप्राभृतविंशतितमगाथावृत्तौ । ४५
SR No.022249
Book TitleDravyapraman Prakaranam Evam Kshetrasparshana Prakaranam
Original Sutra AuthorN/A
AuthorJagacchandrasuri
PublisherDivyadarshan Trust
Publication Year2010
Total Pages104
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy