________________
चाव्याप्ततयोक्तत्वाल्लोकस्यासंख्येयेषु भागेषु स्नातको वर्त्तते, लोकाऽऽपूरणे च सर्वलोके वर्तते" इति ।
तत्र च दण्डकरणलक्षणे प्रथमे समये दण्डसंहरणलक्षणेऽष्टमे समये च तस्यौदारिक एव योगः, द्वितीय - षष्ठ- सप्तमसमयेषु औदारिकमिश्रो योगः, तृतीय- चतुर्थ - पञ्चमसमयत्रये तु कार्मणो योग: प्रवर्तते तस्य । तदुक्तं प्रशमरतिप्रकरणे उमास्वातिचरणैः
"औदारिकप्रयोक्ता प्रथमा - ऽष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम - षष्ठ - द्वितीयेषु ॥१॥ कार्मणशरीरयोगश्चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥२॥इति |
तदेवमौदारिक- तन्मिश्रकाययोगयोः केवलिसमुद्घातगतजीवलाभेऽपि प्रस्तुतक्षेत्रं लोकासंख्येयभागमात्रं प्रदर्शितमिति ।
"ण हवइ" इत्यादि, अकषायजीवानधिकृत्य भण्यमानं क्षेत्रम् “उत्पादाद्” उत्पादापेक्षया कुत्राऽपि मार्गणाभेदे न भवति, भवप्रथम - समयवर्तिनां जीवानामकषायत्वाभावदिति भावः ।
क्षेत्रप्ररूपणमुपसंहरति-" गंयं खित्त "मिति क्षेत्रप्ररूपणं समाप्तमित्यर्थः ॥१०-११-१२॥
तदेवं भणितं नरकगत्योघादिष्वधिकृतमार्गणाभेदेषु सकषायजीवानधिकृत्याऽकषायजीवानधिकृत्य चोपपात - स्वस्थान- समुद्घातभेदभिन्नं त्रिविधं क्षेत्रम् । एतर्हि यथोक्तलक्षणां नानाजीवाश्रितां स्पर्शनां निजिगदिषुः क्षेत्रवदुपपातादिभेदात्स्पर्शनाप्रभेदान् प्रदर्शयन् प्राग्वदादौ सकषायजीवानधिकृत्य तामाह
४३