________________
दुविहं इगिंदियतिगे, ___ थूले पवणे अपज्जपवणे-य ।
सट्ठाणा हीणजगं, "दुविहं" इत्यादि, 'सव्वजगं' इत्यनन्तर-गाथात इहापि सम्बध्यते, तथा च 'स्थूले' बादरे एकेन्द्रियत्रिके एकेन्द्रियौघ-तत्पर्याप्ताऽपर्याप्तभेदत्रयाऽऽत्मके, तथा “पवणे" इत्यादि, 'थूले' इत्यस्याऽनन्तरोक्तस्येहापि सम्बन्धाद् बादरवायुकायौघेऽप-र्याप्तबादरवायुकाये च 'द्विविधम्' उपपात-समुद्घातभेदभिन्नं नानाजीवसम्बन्धि यथोक्तलक्षणं क्षेत्रं सर्व-लोको भवति, न पुनः स्वस्थानादपि सर्वलोकः । “सहाणा" त्ति स्वस्थानात्तु हीनमसंख्येयभाग-लक्षणेनैकदेशेन "जगत्"-लोको भवति । एतद्धि तत्तन्मार्गणास्थपर्याप्ता-ऽपर्याप्तान्यतरबादरवायुकायजीवाक्षिप्तं विज्ञेयम्, न तु वायुकायेतरबादरजीवापेक्षया, तेषां बादरपृथिव्यादीनां स्वस्थानतो लोकासंख्येयभागगतत्वात् । बादरवायुकायिकानां तु देशोनलोकवर्ति-त्वाच्च । तदुक्तं श्रीप्रज्ञापनोपाङ्गे__ 'कहि णं भंते ! अपज्जबादरवायुकायियाणं ठाणा पन्नत्ता ? गोयमा ! जत्थेव बादरवायुकायियाणं पज्जत्तगाणं ठाणा पन्नत्ता तत्थेव बादरवायुकायियाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्टाणेणं लोयस्स असंखेज्जेसु भागेसु' इति ॥
तिहावि पज्जत्तवाउम्मि ॥८॥ "तिहा" इत्यादि, 'थूले' इत्यस्यानन्तरोक्तस्येहापि सम्बन्धाद् बादरपर्याप्तवायुकाये त्रिधाऽपि, न पुनरनन्तरोक्तनीत्या केवलं स्वस्थानात्; विधा, कियत् ? देशोनलोकः, तच्च 'हीणजग' मित्यस्येहापि