________________
ॐ श्री शंखेश्वरपार्श्वनाथाय नमः श्री प्रेमसूरीश्वरगुरुभ्यो नमः चतुःसप्तत्युत्तरशतमार्गणास्थानान्यधिकृत्य नानासकषाया-ऽकषायजीवानां क्षेत्र - स्पर्शनयोः प्रतिपादकं
स्वोपज्ञवृत्तिविभूषितं
क्षेत्रस्पर्शनाप्रकरणम्
नत्वा शङ्खेश्वरं पार्श्वं गच्छेशं स्वगुरूंस्तथा ।
क्षेत्र - स्पर्शनसंदर्भः स्वोपज्ञस्तन्यते कियत् ॥
新
इह तावत्स्वपरहितकाम्यया यथार्थाभिधं क्षेत्र - स्पर्शनाप्रकरणमारि
प्सुर्ग्रन्थकृदादौ मंगलादिप्रतिपादिकां गाथामभिधत्ते
नमिउं अरिहंताई
सगुरुपसाया सुयाणुसारेणं । बेमि गइआइगेसुं
जीवाणं खित्त -फुसणाऊ ॥१॥ .
"नमिउं" इत्यादि, इह पूर्वार्धेन मङ्गलसम्बन्धौ साक्षादुक्तौ, उत्तरार्धेन त्वभिधेयम्, प्रयोजनं तु सामर्थ्यगम्यम् । तत्र अरीणां - रागद्वेषाद्यान्तरशत्रूणां हननात्, यद्वा चतुस्त्रिंशतमतिशयान् देवेन्द्रादिकृतां पूजां वाऽर्हन्तीत्यर्हन्तस्ते आदौ येषामर्हत्सिद्धाऽऽचार्योपाध्यायसाधूनां तेऽर्हदादयस्तानर्हदादीन्
२६