________________
अादिविधिः। ४३ आश्रादसमाप्तेरितिशेषः । अर्घ्यपात्राण्याहप्रजापतिः,
सौवर्ण राजतं पात्रं खाझं मणिमयं तथा । यज्ञियं चमसं वापि अध्यार्थ पूरयेद्बुधः ॥
आश्वलायन:-तेजसाश्ममयमृन्मयेषु त्रिषु पात्रेवेकद्रव्येषु वेति । अनन्तरं विधेयमाह याज्ञवल्क्यः ,
दवोदकं गन्धमाल्यं धूपदानं सदीपकम् ।
अर्योत्तरमुदकदानपूर्वकं गन्धादि दद्यादितिवचोऽर्थः । गभस्ति :---
अयं पिण्डप्रदानं च स्वस्त्यक्षय्ये तथैवध ।
गन्धपुष्पादिकं सर्व हस्तेनैव तु दापयेत् ।। मन्धदानावसरे विशेषमाह गोविन्दार्णवे-- शातातपः,
करे पवित्रं कृत्वा तु गन्धं यस्तु विलिम्पति । पितृयज्ञस्य तन्छिद्रं निराशाः पितरो गताः ॥ इति । माधवीये यमः,
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुपातः कामं तमपि भोजयेत् ॥ इति । भिक्षुकानाहात्रिः,
ब्रह्मचारी यतिश्चैत्र विद्यार्थी गुरुपोषकः ।
अध्वगः क्षीणत्तिश्च षडेते भिक्षुकाः स्मृताः ॥ इति । कूर्मपुराणेऽपि--
अतिथिर्यस्य नाइनाति न तच्छादं प्रचक्षते । अतिथिलक्षणमुक्तं विष्णुपुराणे,
अज्ञातकुलनामानमन्यतः समुपागतम् । पूजयेदतिथि सम्यनैकग्रामनिवासिनम् ॥ इति ।