________________
अादिविधिः। दे द्वे पवित्रे विधिवत्पात्रयोश्वोपरि क्षिपेत् । वशिष्ठः
तुष्णीं प्रोक्ष्याम्भसा पात्रे कुर्याद बिले ततः ।
पूरयेत्पात्रयुग्मं तु कृत्वोपरिपवित्रके ॥ इति । पराशर:
प्राङ्मुखोऽमरतार्थेन शन्नोदेव्युदकं क्षिपेत् । यवोसीति यवांस्तत्र तूष्णीं पुष्पाणि चन्दनम् ॥ अत्रोदकक्षेपणे शन्नोदेवीरितिमन्त्रस्य विनियोग उक्तः स शाखान्तरविषयः। बचानां तु "दर्भान्तहितेष्वप आसिच्य शनोदेवीरभिष्टय इत्यनुमन्य तासु तिलानापवति" इतिसूत्रेणानु. मन्त्रणस्य विहितत्वात् । पितृणां विशेषः
पात्रण्यासाय चाग्नेयीदिक्संस्थेषु कुशेषु च ।
त्रास्त्रीश्च स्थापयेदर्भान्प्रयेकं भाजनत्रये ॥ गाय:
हस्ते प्रादेशमात्रं तु त्रिहत्त्वा पवित्रकम् ।
अभ्यर्च्य पूर्वतोऽयं वै दद्यात्तु पितृदिङ्मुखः ॥ इति । त्रिवृत्-त्रिदलम् । पूर्वतः अर्घ्यदानात्माक् । स्मृत्यन्तरे--
दैव्यर्चा दक्षिणादि स्यात्पादजान्वंशमूर्धनि । शिरोंऽशजानुपादेषु वामाङ्गादिषु पैतृके ॥ अर्चा-पूजाऽऽवाहनरूपा । ब्राह्मे--
ततो वामेन इस्तेन गृहीत्वा चमसान्क्रमात् । तत्तोयं दक्षिणे कृत्वा देवतीर्थेन दापयेत् ॥ तत-आवाहनोत्तरम् । पितृणां त्वाहाश्वलायन:-इतरपाण्यङ्गुष्ठान्तरेणोपवीति६श्रा० चं०