SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अनुक्रमणिका। पितृदेवद्विजानां तु पूजाकाण्डविधिः स्मृतः । भिक्षुकास्तिथयः प्रोक्ता वस्त्रावश्यकता तथा ॥ १२ ॥ लक्षणं चाहतस्योक्तं नीलीवस्त्रनिषेधनम् । तत्र यज्ञोपवीतस्य दानमावश्यकं मतम् ।। १३ ॥ साधनं मण्डलस्योक्तं तन्निर्माणप्रकाशनम् । तत्रानोकरणं प्रोक्तं दविके तनिषेधनम् ॥ १४ ॥ विधुरस्थ विकल्पस्तु कथितो यमवाक्यतः । परिवेषणधर्मश्च घृतपात्रनिधापनम् ॥ १५ ॥ चित्राहुतिनिषेधश्च ब्राह्मणानां प्रकीर्तितः । अन्योन्यस्पर्शने भुक्तौ प्रकारः समुदाहृतः ॥ १६ ॥ सशेषभोजनविधिः पिण्डदानं ततः परम् । पिण्डदेशादि सम्प्रोक्तं परिमाणं ततः परम् ॥ १७ ॥ विकिरः पिण्डकाले च मारिस्पर्शदूषणम् । . पिण्डानां प्रतिपत्तिश्च कथिता प्राशनादिका ॥ १८ ॥ सुप्रोक्षितादिकं प्रोक्तमुच्छिष्टोच्चालनं ततः । तत्कारः प्रकथितास्तत्कालश्च निरूपितः ॥ १९ ॥ उच्छिष्टपतिपत्तिश्च दक्षिणादानमीरितम् । . दक्षिणाद्रव्यकथनं वैश्वदेवनिरूपणम् ।। २० ॥ साविशेषः सम्प्रोक्तः श्रादशेषस्य भोजनम् । केषाश्चित्तनिषेधस्तु सापवाद उदाहृतः ॥ २१ ॥ दातृभोक्त्रास्तु नियमाः क्षौरवर्जनकादयः । स्वस्याशक्तौ प्रतिनिधिः पुत्रशिष्पादिरीरितः ॥ २२ ॥ नित्यश्राद्धविधानं चक्षयाहश्राद्धमीरितम् ।। मासस्य निणयः सर्वो मलमासनिषेधनम् ॥ २३ ॥ एकोदिष्टविकल्पस्तु पार्वणेन समं मतः । विशेषतस्तु केषांचिदेकोद्दिष्टं प्रदर्शितम् ॥ २४॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy