________________
L
श्राद्धचन्द्रिकायाम्
मपसव्येन नामगोत्रादयुच्चार्यास्मत्पितृपितामहप्रपितामहेभ्यो यद्दत्तमिति प्राग्वत् । ततः पित्रादिभ्यः स्वधोच्यताम् अस्तु स्वधेति पुरोधाः । ततो देवपित्रोः सुवर्णरजते श्राद्धसागुण्यार्थे दक्षिणाः पान्तु इति दक्षिणां दवा उत्तिष्ठत पितरो विश्वेदेवैः सहेस्युद्वास्य सर्व नद्यां प्रक्षिप्य पुरोधसं प्रदक्षिणीकृत्य प्रणम्य च दक्षिणादिदानेन तोषयेत् । ततः -
आमानेन तु शूद्राणां तूष्णीं तु द्विजपूजनम् । कृत्वा श्राद्धं तु निर्वाप्य सजातीनाशयेदथ || इति वृद्धपराशरवाक्यात्सजातिभ्यो भोजनं दत्वा स्वयं सुहृद्युक्तः सकृदेव भुञ्जीत ।
इति शुद्रश्राद्धप्रयोगः |
अथ अमृतदानविधिः ।
हेमाद्रौ भविष्ये
तस्माच्छय्यां समासाद्य सारदारुमयीं दृढाम् । दन्तपत्रान्वितां रम्यां हेमपट्टेरलङ्कृताम् ॥ हंसतुली प्रतिच्छन्नां शुभगण्डोपधानिकांम् । प्रच्छादन पटीगन्धधूपदीपाधिवासिताम् ॥ तस्यां संस्थापयेद्धमं हरिं लक्ष्म्या समन्वितम् । मृतशय्यायां हरिस्थाने प्रेतमिति विशेषः । उच्छीर्षके घृतभृतं कलशं परिकल्पितम् ॥ ताम्बूलकुङ्कुमोदकर्पूरागरुचन्दनम् । दपिकोपानहच्छत्रचामरासनभाजनम् ॥ पाइर्वेषु स्थापयेद्भक्त्या सप्तधान्यानि चैव हि । शयनस्थस्य भवति यदन्यदुपकारकम् ॥ भृङ्गारकरकायं तु पञ्चवर्णं वितानकम् |