________________
१५८ श्राडचन्द्रिकायाम्प्रयोगोऽभिधीयते । तत्र गृह्यपरिशिष्टे-आहिताग्निः पिण्ड. पितृयज्ञं कृत्वा करोत्यनाहिताग्निस्तु तदितरेण व्यतिषज्यते यथादौ पितृयज्ञो यावदिध्माधानादथ पावणं ब्राह्मणपच्छौचाद'. च्छादनान्तं पुनः पितृयज्ञ आमेक्षणानुपहरणात्पुन: पार्वणमातः प्तिज्ञानादयोभयशेष क्रमेण समापयेदित्येष व्यतिषङ्ग इति ।
अथ प्रयोगः। गृह्यानिमान् चतुर्दश्यां सायंहोमानन्तरममायामेव वा प्रातोमानन्तरं यथासामय ब्राह्मणानिमन्व्य ता. नाकार्य स्नातो घृतपवित्रः प्राणानायम्य देशकालो सङ्कीर्य प्राचीनावीसन्वाचितसव्यजानुः पितृपितामहप्रपितामहानां सपनीकानां मातामहमातु:पितामहमातुःप्रपितामहानां सपनी कानां पार्वणश्राद्धं पिण्डपित्यक्षं च व्यतिषङ्गेण करिष्य इति सङ्कल्प्य ब्राह्मणनिमन्त्रणादिद्वितीयसङ्कल्पान्तं कृत्वा विप्रान्स निधाप्योपासनाग्निं प्रज्वाल्याग्नेय्यभिमुखोऽग्निं ध्यात्वाग्नेयीमार• भ्याप्रदक्षिणं सकृत्परिसमुह्याग्नेय्यग्रदै भैरप्रदक्षिणं परिस्तीर्य तथैव पर्युक्ष्याग्नेरीशान्यां वायव्यां वाग्नेय्यग्रान्कुशानास्तीयों भ्युक्ष्य तत्र चरुस्थालीशूर्पस्फ्योलूखलमुसलाध्रुवकृष्णाजिनस. कृदाच्छिन्नं वहिरिध्ममेक्षणकमण्डल्याख्यानि पात्राणि न्यग्वि. लान्येकैकश आग्नेयीसंस्थान्यासाद्योत्तानानि कृत्वा कमण्डलुज. लेन तानि प्रोक्ष्य गृहीतचरुस्थालीशूर्पोऽनर्दक्षिणतः स्थितः धीहिमच्छकटं दक्षिणत आरुह्य शूर्पे निहितां स्थाली ब्रीहिभिरा. पूर्य यथास्थालामुखप्रदेशाबाहयः शूर्पे निपतन्ति तथा ता निमृज्य स्थालीमुखप्रदेशतः पतितान्त्रीहीन शकटे प्रास्यानेः पश्चिमदेशे वायव्यग्रीवमास्तीर्णे कृष्णाजिने उलूखलं निधाय तत्र स्थालीस्थान्त्रीहनिधायानेय्याभमुख्या तिष्ठत्या परन्यावहतान्सकृत्फलीकृतान विविच्य सकृत्प्रक्षालितान् जीवतण्डुलान