________________
भद्रकरोदयाख्यव्याख्याविभूषिते
इतीन्द्रियजयात्मकं शमलाभोपायं शिष्यं सुहृद्भूत्वाऽपृष्टोऽप्यभिधत्ते
बिभेषि यदि संसारान्मोक्षप्राप्तिं च काङ्क्षसि । तदेन्द्रियजयं कत्तु स्फोरय स्फारपौरुषम् ॥ १।।
बिभेषीति । यदि, संसारात-संसरणं पुनः पुनर्भवग्रहण संसारस्तस्मात् , विभेषि-भयं गच्छसि, त्वमिति शेषः । तेनोपस्थितस्य शिष्यस्य तादृशस्याऽनुपस्थितस्याऽप्यन्यस्य चोपदेशस्य लोकसामान्यमुद्दिश्य प्रवृत्तेः परामर्शः । पुनः पुनर्भवग्रहणे हि गर्भवासादिमरणान्ता अनन्ताः क्लेशा इति तेभ्यो भयं जीवस्य ज्ञात. भवस्वरूपस्य स्वाभाविकम् , अतस्तव यदि भवाद्भयम् , किञ्च, चः पुनरर्थे । मोक्षप्राप्तिम्--मोक्षलाभम् , मोक्षमित्येतावन्मात्रोत्यैव विवक्षितार्थप्रतीतिसम्भवे मोक्षप्राप्तिमिति लोकरूढ्योक्तमिति बोध्यम् । काङ्क्षसि-इच्छसि, मोक्षे सत्येव भवभयात्राणं नाऽन्यथेत्यतो यदि मोक्षमिच्छसीत्यर्थः । भीतस्य हि भयहेतो. स्त्राणेच्छा भवत्येव । किन्त्वहं बिभेमीत्येतावता न त्राणसम्भवः, अपि तु भयात्राणेच्छया त्रातृसान्निध्यात् । त्रातृसान्निध्यं च तथे. च्छया तथोपायप्रवृत्तेर्नाऽन्यथेति कः स उपाय इत्यपेक्षायामाह-तदा-तर्हि, इन्द्रियजयम् - इन्द्रियाणां तथाख्यातानां चक्षुरादीनां जयः स्वस्वविषयेषु सकाम प्रवृत्तनिरोधरूपो वशीकारस्तम् , कर्तुम्-साधयितुम् , स्फारपौरुषम्-स्फारं महद् बहु च पौरुषं पराक्रमम् , न लघु नाऽल्पं च सोत्साहमुद्योगमित्यर्थः । म्फोरय-आचर, प्रकटयेत्यर्थः । इन्द्रियाणामतिबलवत्त्वातन्निग्रहसमर्थेनाऽनल्पेनाऽतिबहुना च पुरुषकारेण प्रवर्तितव्यम् , यथा