________________
पंचसंयतविवरण=v=d=p=d=d=d=d=c=v=be प्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीति कृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात् , यश्चैहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सपिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, 'उकोसेणं अट्ठारससागरोवमकोडाकोडीओ' ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति ।। परिमाणद्वारे 'छेदोवट्ठावणिये' इत्यादौ 'जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहुत्तं'त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयत परिमाणमादि तीर्थकर तीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्यस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः-इदमप्यादितीर्थकराणां यस्तीथकालस्तदपेक्षयैव समवसेयं, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति ॥ अल्पबहुत्वद्वारे,-'सव्वत्थोवा सुहमसंपरायसंजय'त्ति स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषां, 'परिहारविसुद्धियसंजया संखेजगुण'त्ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, 'अहक्खायसंजया संखेजगुण'त्ति कोटीपृथक्त्वमानत्वा+0= ====c[ ७५ ]=====be