________________
पंचसंयतविवरण=v=D=D=D=v===c=v=ce स्य-माविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिका, स चारोपयिष्यमाणमहाव्रतः प्रथमपश्चिमतीर्थकरसाधुः, 'आवकहिए यत्ति यावत्कथिकस्य-भाविव्यपदेशान्तराभावाद् यावजीविकस्य सामायिकस्यास्तित्वाद्यावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः, 'साइयारे य'त्ति सातिचारस्य यदारोप्यते तत्सातिचारमेव छेदोपस्थापनीयं, तद्योगात्साधुरपि सातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारः स च शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्क्रान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति, 'णिव्विसमाणए यत्ति परिहारिकतपस्तपस्यन् 'निस्विट्ठकाइए यत्ति निर्विशमानकानुचरक इत्यर्थः, 'संकिलिस्समाणए'त्ति उपशमश्रेणीत: प्रच्यवमानः 'विसुद्धमाणए यत्ति उपशमश्रेणी क्षपकश्रेणी वा समारोहन , 'छउमत्थे य केवली यत्ति व्यतम् ॥ अथ सामायिकसंयतादीनां स्वरूपं गाथाभिराह'सामाइयंमि उगाहा, सामायिक एव प्रतिपने न तु छेदोपस्थापनीयादौ 'चतुर्यामं चतुर्महाव्रतम् 'अनुत्तरं धर्म' श्रमणधर्ममित्यर्थः 'त्रिविधेन' मनःप्रभृतिना 'फासयंतो'त्ति स्पृशन्-पालयन् यो वर्तते इति शेष: सामायिकसंयतः सः 'खलु'निश्चितमित्यर्थः, अनया च
D=====
==d[ ४७ ]==
===ar