________________
धिक् तामुष्ट्रगतिं मलीमसतनुं काकस्वरां दुर्भगामित्थं स्त्रीजनवर्णनिन्दनकथा दूरेऽस्तु धर्मार्थिनाम्॥१॥ अहो ! क्षीरस्यान्नं मधुरमधुरं चाज्यखण्डान्वितं चेद्, रसः श्रेष्ठो दध्नो मुखसुखकरं व्यञ्जनेभ्यः किमन्यत्। न पक्कान्नादन्यद्रमयति मनः स्वादु ताम्बूलमेकं, परित्याज्या प्राज्ञैरशनविषया सर्वदैवेति वार्ता ॥२॥ रम्यो मालवकः सुधान्यजनकः काञ्च्यास्तु किं वर्ण्यते ?, दुर्गा गूर्जरभूमिरुद्भटभटा लाटाः किराटोपमाः। काश्मीरे वरमुष्यतां सुखनिधौ स्वर्गोपमाः कुन्तला, वा दुर्जनसङ्गवच्छुभधिया दैशी कथैवंविधा॥३॥ राजाऽयं रिपुवारदारणसहः क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाधुना। दुष्टोऽयं म्रियतां करोतु सुचिरं राज्यं ममाप्यायुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम्॥४॥' इति गाथार्थः ॥३५॥ अथ पञ्चत्रिंशत्तमी षट्त्रिंशिकामाह - तित्तीसविहासायण-वजणजुग्गो य वीरिआयारं। तिविहं अणिगृहंतो, छत्तीसगुणो गुरू जयउ॥३६॥ व्याख्या - सुगमैव। नवरं त्रयस्त्रिंशदाशातना गुरुपुरोगमनादिकाः। यदाह – 'पुरओ पक्खाऽसन्ने गंता३ चिट्टण६ निसीयणा९ऽऽयमणे१०। आलोअण११-पडिसुणणे १२, पुव्वालवणे१३य आलोए१४॥१॥ तह उवदंस१५ निमंतण१६, खद्धा१७ ययणे१८ तहा अपडिसुणणे१९। खद्धत्ति अ२० तत्थगए२१, किं२२ तुम२३ तजाय२४ नोसुमणे२५॥२॥ नोसरसि२६ कहं छित्ता२७, परिसं भित्ता२८ अणुट्टियाइ कहे२९। संथारपायघट्टण३०, चिठ्ठ३१ च्च३२ समासणे३३ यावि॥३॥'
(गुरुवन्दनभाष्यम् ३५-३७) १. ब-पुस्तके-“काश्मीरे वरमुख्यता” इत्यपि॥
३३
...२३८...
त्रयस्त्रिंशदाशातनाः