________________
अथ त्रयस्त्रिंशत्तमी षट्विंशिकामाह - तह बत्तीसविहाणं, जीवाणं रक्खणंमि कयचित्तो। जियचउब्विहोवसंग्गो, छत्तीसगुणो गुरू जयउ॥३४॥
व्याख्या – उत्तानार्थैव। द्वात्रिंशद्विधा जीवाः, भूजलानलानिलानन्तवनस्पतिरूपाः पञ्च पञ्चापि सूक्ष्मबादरभेदभिन्नत्वाद्दश, ते च सप्रत्येकवनस्पतिका एकादश, तेऽपि द्वित्रिचतुरिन्द्रियाऽसज्ञिसज्ञियुताः षोडश, ते च षोडशापि पर्याप्तापर्याप्तभेदभिन्नत्वाद् द्वात्रिंशदिति। तथा चाह -
'सुहुमियरभूजलानलवा-उवणणंत दस सपत्तेया। बितिचउसन्नियरजुया सोलस पजेयर दुतीसं॥१॥' ।
चतुर्विधोपसर्गास्तु देवकृतमानवकृततिर्यक्कृतात्मसंवेदनलक्षणाः। तत्र देवकृतोपसर्गाश्चतुर्धा, हास्याद्वा रागाद्वा द्वेषाद्वा विमर्शाद्वा। तत्र हास्याद् व्यन्तरीकृतोपसर्ग ईडरीक्षुल्लकस्येव। रागात् स्नेहरागात् सीतेन्द्रकृतः श्रीरामचन्द्रस्येव। प्रद्वेषात् सङ्गमकृतः श्रीवर्धमानस्येव। विमर्शाद् अश्रद्धानपरामरकृतो नन्दिषेणस्येव॥ तथा मानवकृतोपसर्गोऽपि चतुर्धा, हास्याद्वा रागाद्वा द्वेषाद्वा विमर्शाद्वा। तत्र हास्याद्वेश्यासुताकृतः क्षुल्लकस्येव। रागात्कोशाकृतः श्रीस्थूलभद्रस्येव। प्रद्वेषात्सोमिलकृतो गजसुकुमालस्येव। विमर्शाद्भूपतिकारितो गजाधिरूढमहामात्रोत्पादितत्रासक्रमत्यक्तकतिचिच्चीवराया वृद्धार्यिकाया इव॥ तिर्यकृतोपसर्गोऽपि चतुर्धा, भयाद्वा प्रद्वेषाद्वा आहारहेतोर्वा अपत्यालयसंरक्षणार्थं वा। तत्र भयान् मण्डलकुण्डलिप्रभृतिकृतो भवति इति सुप्रतीतमेव। प्रद्वेषाच्चण्डकोशिकसर्पकृतो भगवद्वीरस्येव। आहारहेतोर्व्याघ्रीकृतः सुकोशलस्येव। अपत्यालयसंरक्षणार्थं गोसिंहादिकृतो भवतीत्यपि सुप्रतीतमेव॥ तथाऽऽत्मसंवेदनोपसर्गोऽपि चतुर्धा, सङ्घट्टनाद्वा, प्रपतनाद्वा, स्तम्भनाद्वा, लेशनाद्वा। तत्र सङ्घट्टनात्स्वयमेवाक्षिरजोमलनादिकृतः स्यादिति। प्रपतनाद्धृश्यत्पादस्य सहसालग्नगाढप्रहारस्येव। स्तम्भनान्मूर्च्छितवातप्रयोगक्षणस्तब्धीभूतहस्तपादादेरिव। लेशनाद्गाढरोगकर्शिताङ्गभाग्यस्येव॥ अन्ये तु देवकृतोपसर्गभेदेषु रागाद्वेति पदं परिहत्य चतुर्थं १. स्फुटाथैव ॥ २. ब-पुस्तके - “चतुर्विधः” इत्यपि॥ ...२३४...
द्वात्रिंशद्विधा जीवाः, चतुर्विधोपसर्गाः