________________
'दिव्यौदारिककामानां, कृतानुमतिकारितैः। मनोवाक्कायतस्त्यागो, ब्रह्माष्टादशधा मतम्॥१॥' (योगशास्त्रम् २३) इति गाथार्थः॥२३॥ अथ त्रयोविंशतितमी षट्त्रिंशिकामाह - उस्सग्गदोसगुणवी-सवजओ सत्तरभेयमरणविहिं। भवियजणे पयडतो, छत्तीसगुणो गुरू जयउ॥२४॥
व्याख्या - सुबोधैव। नवरं उत्सर्गदोषाणामेकोनविंशतेर्वर्जको गुरुरिति। ते च घोटकादयो दोषाः। यदाह –
'घोडग १ लय २ खंभाई ३, मालु ४ द्धी ५ सबरि ६ नियल ७ खलिण ८ वह ९। लंबुत्तर १० थणसंजई ११, भमुहं १२ गुलि १३ वायस १४ कविढे १५॥१॥ सिरकंप १६ मूय १७ वारुणि १८, पेहत्ति १९ चइज दोस उस्सग्गे। लंबुत्तरवहुयाई, तिय चउ नो समणिसड्डीणं॥२॥'
एतद्गमनिका – अश्ववद्विषमपादः कायोत्सर्गं करोतीति सर्वत्र योज्यम् १ । वाताहतलतावत्कम्पमानः २। स्तम्भे कुड्यादौ वाऽवष्टभ्य ३। माले शिरोऽवष्टभ्य ४। शकटोर्द्धिवदङ्गुष्ठौ पार्णी वा मेलयित्वा ५। विवसनशबरीवद्गुह्याने करौ कृत्वा ६। निगडितवच्चरणौ पृथुलौ सङ्कीर्णौ वा विधाय७। कविकवद्रजोहरणं गृहीत्वा ८ । वधूवदवनतोत्तमाङ्गः ९। जान्वधः प्रलम्बमाननिवसनः १०। दंशादिरक्षार्थं अज्ञानाद्वा हृदयं प्रच्छाद्य संयतीवत्प्रावृत्य ११। आलापकगणनार्थमङ्गुलीभ्रुवौ वा चालयन् १२,१३। वायसवच्चक्षुर्गोलको भ्रा(भ्र)मयन् १४। कपित्थवत्परिधान पिण्डयित्वा १५। यक्षाविष्ट इव शिरः कम्पयन् १६। मूकवत् हूहूकुर्वन् १७। वारुणी सुरा, तद्रुडबुडायमानः १८। अनुप्रेक्ष्य(क्ष)माणो वानर इवौष्ठपुटौ चालयंश्च १९। कायोत्सर्ग करोतीत्येकोनविंशतिर्दोषाः।
तथा सप्तदशभेदं मरणमावीचिमरणादिकम्। यदाह'आवीइ १ ओहि २ अंतिय ३, बलायमरणं ४ वसट्टमरणं ५ च। अंतोसल्लं ६ तब्भव ७, बालं ८ तह पंडियं ९ मीसं १०॥१॥
...२१८...
एकोनविंशतिरुत्सर्गदोषाः, सप्तदशभेदं मरणम्