SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ - कूपदृष्टान्तविशदीकरणं । अस्यां गाथायां 'तीर्थकरविभूतिः तुच्छैव, तया च तीर्थकरस्य माहात्म्यं नैव' इत्येव प्रतिपादितम्। ततश्चानया गाथयाऽपि तीर्थकरत्वविभूते: अकाम्यता एव प्रतीयते। यशो.: जं पुण णिरभिस्संगं धम्मा, एसो अणेगसत्तहिओ । णिरूवम-सुहसंजणओ, अउव्वचिंतामणीकप्पो ।।१।। तो (ता) एयाणुट्ठाणं, हियमणुवहयं पहाणभावस्स । तेसिं (तम्मि) पवित्तिसरूवं, अत्थावत्तीइ तमदुळं ।।२।। (पू. पञ्चा. ३८-३९) यन्द्र.: एवं भवप्रतिबद्धं अप्रशस्तरागयुक्तं तीर्थकरत्वप्रार्थनं निषिध्याधुना प्रशस्तरागयुक्तं तदेव तीर्थंकरत्वप्रार्थनं अदुष्टं प्रतिपादयन्नाह - जं पुण इत्यादि। पञ्चाशकगाथाद्वयस्यान्वयस्त्वेवम् । → धर्मात् एष अनेकसत्त्वहितो निरूपमसुखसंजनकोऽपूर्वचिन्तामणीकल्पः (तीर्थंकरः) भवति। तस्मात् एतदनुष्ठानं (तीर्थकरस्य देशनादिरूपमनुष्ठानं) हितं अनुपहतं - इति प्रधानभावस्य तस्मिन् प्रवर्तनस्वभावं यत् निरभिष्वङ्गं प्रार्थनं, तत् अर्थापत्त्याऽदुष्टम् । यशो. : यत्पुनस्तीर्थकरत्वप्रार्थनं निरभिष्वंगं तददुष्टमिति सम्बन्धः । यथा धर्मात्कुशलानुष्ठानादेष तीर्थकरो भवतीति गम्यम्। किंभूतः? अनेकसत्त्वहितो निरुपमसुखसंजननः, अपूर्वचिन्तामणिकल्पः। तत्तस्मादेतत्तीर्थकरानुष्ठानं धर्मदेशनादि हितं = पथ्यम्, अनुपहतं = अप्रतिघातं, इतिर्गम्यः, इतिप्रधानभावस्य एवंभूतसुन्दराध्यवसायस्य, तस्मिन् धर्मदेशनादौ जिनानुष्ठाने प्रवृत्तिस्वरूपं = प्रवर्त्तनस्वभावं, अर्थाऽऽपत्त्या = न्यायतः, साभिष्वंगस्य तीर्थकरत्वप्रार्थनस्य दुष्टत्वान्यथानुपपत्त्या, निरभिष्वंगं तददुष्टमिति न्यायप्राप्तम्। यन्द्र.: अधुना गाथाद्वयस्य महोपाध्यायप्रदर्शिता वृत्तिः - यत्पुनस्तीर्थकरत्वप्रार्थनमित्यादि । तददुष्टमिति सम्बन्धः। तच्च प्रार्थनं कीदृशस्य जीवस्य भवति, तस्य च भावः कीदृशः? इत्येतदाह- यथा धर्मात् इत्यादि। अयं भावः, यो जीव एवं चिन्तयति यदुत → एष नयसारादिजीव: कुशलानुष्ठानात् अनेकजीवहितकारी स्वस्य परस्य च निरुपमसुखसंजनकः, अपूर्वचिन्तामणिरत्नसदृशस्तीर्थकरो भवति। यस्माच्च एष नयसारादिजीव एतादृशस्तीर्थकरो भवति, तस्मादेव करणात् तस्य धर्मदेशनादिकं अनुष्ठानं हितकारि भवति,प्रतिघातकारि च न भवति - इति। __ एवं चिन्तयन्जीवः प्रधानभाववान् गम्यते, स जीव एतादृशचिन्तनानन्तरं यद्येवं प्रार्थनं करोति यथा 'अहमपि तीर्थंकरो भूयासम्' इति। तदा एवंभूतजीवस्यैतादृशं तीर्थंकरत्वप्रार्थनं अप्रशस्तरागरहितमस्ति,
SR No.022223
Book TitleKupdrushtant Vishadikaranam
Original Sutra AuthorN/A
AuthorChandreshakharvijay
PublisherKamal Prakashan Trust
Publication Year
Total Pages106
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy