________________
कूपदृष्टान्तविशदीकरणं
सामान्यं = षोडशकग्रन्थप्रतिपादितस्वरूपं सर्वक्रियासामान्ये = जिनपूजासम्बन्धिनीषु सर्वासु क्रियासु यदि वा कुत्रापि धर्मानुष्ठाने भावत्वापादकम् = 'सा क्रिया भावरूपा' इति साधकम्। एतच्च षोडशकगाथया ज्ञायत एव यदुत ‘यत्र प्रणिधानादिरूपो भावो विद्यते, तद् धर्मानुष्ठानं भावक्रिया' इति ।
यशो. : कथमन्ते प्रणिधानादि भिन्नमिति चेदत्राहुः -
-
'एयस्स समत्तीए कुसलं पणिहाणमो उ कायव्वं ।
त्तो पवित्तिविग्घजयसिद्धि तह य थिरीकरणं ।।' (पू. पञ्चा. २९)
एतस्य = चैत्यवन्दनस्य समाप्तौ कुशलं शुभं प्रणिधानं प्रार्थनागतमेकाग्ग्रम्, 'उ' इति निपात: |पादपूरणे, कर्त्तव्यं = विधेयं, यस्मादितः प्रवृत्तिः = सद्धर्मव्यापारेषु प्रवर्तनं, जातमनोरथानां यथाशक्ति तदुपाये प्रवृत्तेः । विघ्नजयो मोक्षपथप्रवृत्तिप्रत्यूहस्य जघन्यमध्यमोत्कृष्टस्याऽशुभभावरूपस्य | प्रणिधानजनितशुभभावान्तरेणाभिभवात्। तथा सिद्धिर्विघ्नजयात्प्रस्तुतधर्मव्यापाराणां निष्पत्तिः । तथैव च स्थिरीकरणं | = स्वगतपरम (परगत ) धर्मव्यापाराणां स्थिरत्वाधानं, परयोजनाध्यवसायेनाऽनुबन्धाऽविच्छेद इति यावत् ।
=
=
न्द्र. : शङ्कते - कथमन्ते प्रणिधानादि भिन्नं इति निर्णीतम् ? !
समादधति – अत्राहुः इत्यादि ।
ननु प्रणिधानात्कथं सद्धर्मव्यापारेषु प्रवर्तनम् ? इति प्रश्ने सत्याह- जातमनोरथानां = प्रार्थनासूत्रेण याचितेषु पदार्थेषु भवनिर्वेदादिषु सम्प्राप्तमनोरथानां यथाशक्ति = स्वशक्त्यनुसारेण तदुपाये = सद्धर्मोपाये प्रवृत्तेः।
स्वगतपरगतधर्मव्यापाराणां स्थिरत्वाधानं इति । ननु सिद्धेः पश्चाद् विनियोगो निगदितः, विनियोगे तु परस्मिन् धर्मानुष्ठानं स्थिरं भवति, न तु स्वस्मिन् । ततश्चात्र स्वगतानामपि धर्मव्यापारानां यत् स्थिरत्वाधानमुक्तं, तन्न घटेत ? इति शङ्कायां स्पष्टयन्नाह - परयोजनाध्यवसायेन 'इमे जीवा धर्मानुष्ठाने उद्युक्ता भवन्तु' इति पवित्राध्यवसायेन अनुबन्धाविच्छेदः स्वस्मिन्नपि तद्धर्मानुष्ठानपरम्पराऽविनाशः । परोपकारपवित्रभावनायाः स्वोपकारकरणैकशीलत्वादिति ।
=
यशो. : 'एत्तो च्चिय ण णियाणं, पणिहाणं बोहिपत्थणासरिसं ।
सुहभावहेउभावा णेयं इहराऽपवित्ती य ।।' (पू. पञ्चा. ३०)
=
आरोग्यइत एव = कुशलप्रवृत्त्यादिहेतुत्वादेव, बोधिप्रार्थना (सदृशं ) | बोधिलाभसमाधिवरप्रार्थना (सदृशं ), इतरथा = निदानत्वेऽप्रवृत्तिरन्त्यप्रणिधाने स्यात्, सा चाऽनिष्टा ।
थन्द्र.ः पूजापञ्चाशकगाथाया अन्वयस्त्वेवम् → इत एव बोधिप्रार्थनासदृशं प्रणिधानं शुभभावहेतुत्वात् न निदानं ज्ञेयम्। इतरथाऽप्रवृत्तिश्च ← इति ।