________________
-
- कूपदृष्टान्तविशदीकरणं ।
यशो.: उक्तं हि संसारप्रतनुताकारणत्वं द्रव्यस्तवस्य,
तत्र दानादिचतुष्कतुल्यफलकत्वोपवर्णनमप्यत्रोपष्टम्भकमेव ॥८॥ चन्द्र. : एतदेवाह - उक्तं हि संसारेत्यादि अकसिणपवत्तगाणं' इत्यादिगाथायां प्रागेतद् दृष्टमेवेति। द्रव्यस्ववस्य = जिनपूजादिकस्य।
ननु सत्यं तदुक्तं, परन्तु पुष्पजलादिहिंसासमन्वितस्य तस्य संसारप्रतनुताकारणत्वं स्वीकर्तुं न मन उत्सहत इति प्रश्ने सति तत्कारणत्वस्य दृढतां सूचयन् शास्त्रपाठान्तरमप्याह - तत्र = द्रव्यस्तवे दानादिचतुष्कतुल्यफलकत्वोपवर्णनमपि = 'काउण जिणाययणेहिं मंडियं पुढवीं, दाणाइचउक्केण वि सुठु वि गच्छिज्ज अच्चुअं' इति प्राक्प्रतिपादिता या महानिशीथगाथा, तत्र जिनायतनादिरूपे द्रव्यस्तवे यत् दानादिसमानफलकत्वस्य निरूपणं कृतं, तन्निरूपणमपि, न केवलं संसारप्रतनुताकारणत्वनिरूपणमेव आज्ञायोगानुमाने उपष्टम्भकम्'इत्यपिशब्दार्थः। अत्र = 'जिनपूजादिकं कर्त्तव्यं' इत्याज्ञायोगस्यानुमाने कर्तव्ये उपष्टम्भकमेव = पोषकमेव।
अयं भावः -
न दृश्यतां नाम द्रव्यस्तवे साक्षात् 'द्रव्यस्तवः कर्त्तव्यः' इत्याज्ञायोगः। किन्तु 'द्रव्यस्तवः संसारप्रतनुताकारणं' इति वचनं तु दृश्यत एव, ततश्च तेनैव वचनेन द्रव्यस्तवे कर्त्तव्यताप्रतिपादकः आज्ञायोगोऽनुमीयत एव। एवं द्रव्यस्तवो दानादिसमानफलकः' इति यदुपवर्णनं महानिशीथेऽस्ति, तेनाऽपि द्रव्यस्तवे कर्त्तव्यताप्रतिपादकः आज्ञायोगोऽनुमीयत एव, तथा च महानिशीथोपवर्णनं द्रव्यस्तवकर्त्तव्यतानुमानस्योपष्टम्भकमेवेति सिद्धम्।
यशो.: अथ 'द्रव्यस्तवे यावानारम्भस्तावत्पापम्'इत्यत्र स्थूलानुपपत्तिमाह -
जावइओ आरंभो, तावइयं दूषणंति गणणाए।
अप्पत्तं कह जुज्जइ, अप्पंपि विसं च मारेइ ॥९॥ यन्द्र.: कश्चित्पूर्वपक्ष एवं वदाते द्रव्यस्तवे = जिनपूजादिके यावान् = यत्परिमाणः आरम्भः = जीववधः, तावत्पापम् = तत्परिमाणम सातादिकं कर्म इति।
महोपाध्याया अत्र = अस्मिन्पूर्वपक्षवचने स्थूलानुपपतिं = स्थूलदृष्ट्या दृश्यमानां अनुपपतिं = असङ्गतिं आह -
नवम्या गाथायाः संस्कृतछाया अन्वयश्च - यावान् आरम्भः, तावद् दूषणं इति गणनायां । अल्पत्वं कथं युज्यते, अल्पमपि विषं च मारयति ॥९॥