________________
-
कूपदृष्टान्तविशदीकरणं ।
यशो.: अत एवाऽऽपेक्षिकाल्पायुष्कताधिकारे 'नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्तव्यतामापन्नमिति चेत्? आपद्यतां नाम भूमिकाविशेषापेक्षया, को दोषः? अत एव यतिधर्माऽशक्तानां | द्रव्यस्तवद्वारेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ता' इति भगवतीवृत्तावुक्तम् ।
यन्द्र.: अत एव = यतनासत्त्वे द्रव्यहिंसाया असदाम्भप्रवृत्तिनिवृत्तिफलत्वादेव आपेक्षिकाल्पायुष्कताधिकारे = वधादिविरतिनिरवद्यदानजन्यस्य शुभदीर्घायुष्कस्यापेक्षया अल्पं यत् शुभायुष्कं, तदापेक्षिकं अल्पायुष्कं, तादृशायुष्कताया अधिकार इत्यर्थः । एतच्चायुष्कं जिनपूजार्थवधादिसत्त्वे भक्त्या सदोषदाने च भवतीति उक्तमेव प्राक्। ___ भगवतीवृत्तिसम्बन्धी पाठस्तु प्रायः सुगम एव, नवरं नन्वेवं = यदि जिनपूजार्थप्राणातिपातादेः शुभाल्पायुष्कताकारणत्वं, तर्हि तानि कर्तव्यानि आपोरन्निति।
समादधति अभयदेवसूरयः - आपद्यतां नाम भूमिकाविशेषापेक्षया = मुग्धतासमन्वितशुभभाववत्तास्वरूपो यो भूमिकाविशेषः, तदपेक्षया त्रीण्यपि कर्त्तव्यान्येव तेषामिति।
अत एव = भूमिकाविशेषापेक्षया कर्त्तव्यत्वमकर्त्तव्यत्वं वा सिध्यतीति यत्तत्त्वं, तस्मादेव कारणात् यतिधर्माशक्तानां = साधुधर्मं स्वीकर्तुं असमर्थानां द्रव्यस्तवद्वारेण = जिनपूजादिस्वरूपेण प्राणातिपातादौ प्रवृत्तिः प्रवचने प्रोक्ता इति।
यशो. : अत्र यत्तिधर्माशक्तत्वम् असदारम्भप्रवृत्तत्वम् अधिकारिविशेषणं द्रष्टव्यम् ।
यन्द्र.: ननु भगवतीवृत्त्या जिनपूजाया असदारम्भप्रवृत्तिनिवृत्तिफलत्वं कथं सिध्यतीति चेत्, अत्र = भगवतीवृत्तौ यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्वं अधिकारिविशेषणं = 'जिनपूजा करणेऽधिकारी कः?' इति प्रदर्शकं विशेषणं प्रदत्तमिति।
अयं भावः - ___ "औषधग्रहणे कोऽधिकारी?" इति चिन्तायां 'यो रोगी स औषधाधिकारी' इति उच्यते। अत्र रोगित्वं औषधाधिकारिविशेषणम्।
एवमत्र 'जिनपूजायां कोऽधिकारी?' इति चिन्तायां 'यो यतिधर्माशक्तः, स जिनपूजाधिकारी' इति भगवतीवृत्तौ उक्तम्। ततश्च यतिधर्माशक्तत्वं जिनपूजाधिकारिविशेषणम्, यतिधर्माशक्तत्वं नाम असदारम्भप्रवृत्तत्वमेव, यस्मात् असदारम्भप्रवृत्तः कदापि यतिधर्मशक्तो न भवति। ततश्चासदारम्भप्रवृत्तिमत्त्वमेव पूजाधिकारिविशेषणम्। ___ एवं च यथा रोगी रोगनाशार्थं औषधं गृह्णाति इति औषधस्य फलं रोगनिवृत्तिरेव, एवं असदारम्भप्रवृत्तिमान् असदारम्भप्रवृत्तिनिरोधार्थमेव सदारम्भरूपं जिनपूजादिकं गृह्णाति इति जिनपूजादेः फलं